Proofing

2026-04-02 21:26:51 by ambuda-bot

This page has not been fully proofread.

१२०
 
श्रीशिवस्तोत्रेषु
 
तपस्तपन्तु भो वत्सा अत्रवीदिति तान् शिवः ।
स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः ।
ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२ ॥
 
ब्रह्मविष्णुरुद्रा ऊचुः —
 
तपः केन प्रकारेण कर्तव्यं परमेश्वर ।
 
ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३ ॥
 
महादेव उवाच-
 
कायेन मनसा वाचा ध्यानपूजाजपादिभिः ।
कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४ ॥
 
देवा ऊचुः-
 
त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः ।
सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५ ॥
 
शङ्कर उवाच-
 
शृणुध्वं सर्वपापन्नं भुक्तिमुक्तिप्रदं नृणाम् ।
सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६ ॥
 
यया संसारमग्नानां मुक्तिर्भवति शाश्वती ।
शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७ ॥
 
पठतां शृण्वतां सद्यो मुक्तिः म्यादनपायिनी ।
ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८ ॥
 
भस्मधारी मुनिर्मोनी पद्मासनसमन्वितः ।
 
ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९ ॥
 
पार्वतीसहितं शम्भुं जटामकुटमण्डितम् ।
 
वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३० ॥
 
त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् ।
सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१ ॥
 
विभ्राणं सुप्रसन्नं च कुठारवरदाभयम् ।
दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२ ॥
 
विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् ।
सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३ ॥