Proofing

2026-04-06 02:39:05 by akprasad

This page has been fully proofread once and needs a second look.

मार्कण्डेय:-
 
<page>
<ignore>
श्रीशङ्करकवचम्
 
११९</ignore>
<verse>
चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ।

जय शङ्कर सोमेश रक्ष रक्षेति चात्ब्रवीत् ॥ ८ ॥
</verse>
<verse>
जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः ।

अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ९॥
</verse>
<verse>
ततस्ते विस्मयापन्ना दृष्ट्रावा कृष्णविचेष्टितम् ।

मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसंमितम् ॥ १० ॥
 
</verse>
<verse>मार्कण्डेयः ---
त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः ।

भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ ११ ॥
 
</verse>
<verse>
श्रीकृष्ण उवाच -
 
--
साधु साधु मुने पृष्टं हिताय सकलस्य च ।

अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ १२ ॥
</verse>
<verse>
दैवतं सर्वलोकानां सर्वकारणकारणम् ।

ज्योतिर्यत्परमानन्दं सावधानमतिः शृणु ॥ १३ ॥
 
</verse>
<verse>
विश्वसाधनमीशानं गुणातीतमजं परम् ।

जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ १४ ॥
</verse>
<verse>
यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ।

स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ १५ ॥
</verse>
<verse>
तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ।
 

सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ १६ ॥
 
</verse>
<verse>
पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर ।
 

तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ १७ ॥
 
</verse>
<verse>
महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ।

सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ १८ ॥
</verse>
<verse>
निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ।

निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ १९ ॥
</verse>
<verse>
तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी ।

वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ २० ॥
</verse>
<verse>
जनयामास धातारं दक्षिणाङ्गात् सदाशिवः ।

मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ २१ ॥
 
११९
 
</verse>
</page>