Proofing

2026-04-02 21:26:50 by ambuda-bot

This page has not been fully proofread.

११८
 
श्रीशिवस्तोत्रेषु
 
चर्माम्बराय शरणागतरक्षणाय
धर्मासनाय धरणीपरिपूजिताय ।
धर्माङ्गकोटिसदृशाय ( ? ) कलाधराय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ६ ॥
 
शूलायुधाय सुरसंनुतविक्रमाय
 
कालान्तकाय कमलासनवन्दिताय ।
भालाम्बकाय भवदुःखविनाशना [का] य
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ७ ॥
रामार्चिताय रजनीकरभूषणाय
संभृत्यनाथकुलसंनुतकङ्कणाय । ( ? )
गौरीपयोधरयुगग्रहकार्मुकाय [कामुकाय ]
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ८ ॥
कालहस्त्यष्टकं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥। ९ ॥
 
॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥
 
४२. ॥ अथ श्रीशङ्करकवचम् ॥
ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् ।
आधारं सर्वभूतानामनाधारमविक्रियम् ॥ १ ॥
अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् ।
अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ २ ॥
एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः ।
वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ३॥
ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि ।
तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ४ ॥
तैः पृष्टः कथयामास कुमारप्रभवं च यत् ।
चरितं भूमिभारनं लोकानन्दकरं परम् ॥ ५ ॥
मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः ।
कृष्णः स्नानमथो चक्रे मृदक्षत कुशादिभिः ॥ ६॥
सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् ।
शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ ७ ॥
 
-------