Proofing

2026-04-02 21:26:50 by ambuda-bot

This page has not been fully proofread.

४०.
 
॥ अथ श्रीकालहस्तीश्वराष्टकम् ॥
 
श्रीलसद्विलासलोलशेषतल्पसायकं
 
शैलकन्यकास्यचन्द्रचन्द्रिकाचकोरकम् ।
 
फालनेत्रवह्निदग्धपञ्चवाणरूपकं
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ १ ॥
 
कालकूटभीकराग्निकण्ठमध्यधारणं
 
कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् । (?)
कालमृत्युगर्ववल्लिकासमूलदारणं
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ २ ॥
स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं
बालचन्द्रशेखरं कृपासुधारसाकरम् ।
लालितव्रतार्थिलोकबालकर्णमूलकं (?)
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३ ॥
बालिका वियोगियोगिभावपद्मवासितं
धालधल्यकोटिशीतधामसुप्रकाशितम् ।
कीलसंनिभाग्रशातशूलवृद्धगाशितं ( ? )
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४ ॥
 
भ्रूलतानिरीक्षणप्रभूतलोकजालकं
 
लोलताद्रिजालसत्कपोल[कन्धरं शिवम् ] ।
खेलसत्प्रकल्पितेन्द्रजालतन्त्र कीलकं
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ५ ॥
 
व्यालमक्षिकाग्ररत्नमातृकाविभूषणं
 
कालसिन्धुकासुरारिपङ्क[रूप] भूषणम् ।
शीलवर्तनप्रयुक्तशिष्टभक्तपोषणं
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ६ ॥
 
नीलदेहसेवितामरालदेहप्रापितं
 
मूलमन्त्रकर्णमूर्तिमोचनं त्रिलोचनम् ।
 
शूलिनं सुवर्णसिन्धुमौलिनं कपालिनं
 
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ७ ॥