Stotrarnava /160
This page has not been fully proofread.
११४
श्रीशिवस्तोत्रेषु
शरच्चन्द्रहासं सुकर्पूरभासं
भजे पार्वतीशं महाताण्डवेशम् ॥ १२ ॥
स्फुरन्मुद्रिकारत्नराजत्कराङ्घ्रि
रणत्स्वर्णकोटीरर।जभुजौघम् ।
लसन्मध्यसम्बद्धपट्टाभिरामं
भजे पार्वतीशं महाताण्डवेशम् ॥ १३ ॥
स्फुरन्तं नदन्तं महान्तं दिगन्तं
वसन्तं महाश्चर्यवासो नितान्तम् ।
अनन्तं भवान्तं भवनीहृदन्तं
भजे पार्वतीशं महाताण्डवेशम् ॥ १४ ॥
महादेव देवादिदेवेश शम्भो
भवन्तं विना देवमन्यं न जाने ।
क्षणाराधनेनाशुतोषं महेशं
भजे पार्वतीशं महाताण्डवेशम् ॥ १५ ॥
नमस्ते नमस्ते शिवानन्दकीर्ते
नमस्ते नमस्ते भवानन्दमूर्ते ।
नमस्ते नमस्ते शरण्यैकमूर्ते
नमस्ते नमस्ताण्डवाडम्बराय ॥ १६ ॥
नमस्ते नमस्ते जगज्जन्मकर्त्रे
नमस्ते नमस्ते नमः फालनेत्र ।
नमस्ते नमस्ते हरायाग[घ]हर्त्रे
नमस्ते नमस्ताण्डवा डम्बराय ॥ १७ ॥
नमः पार्वतीप्राणनाथाय तुभ्यं
नमः सर्वलोकैकनाथाय तुभ्यम् ।
नमो विष्णुहृत्पद्मकोशाय तुभ्यं
नमस्ते नमस्ताण्डव डम्बराय ॥ १८ ॥
नमो दिव्यकैलासवासाय तुभ्यं
नमो दिव्यरत्नाहिभूषाय तुभ्यम् ।
नमः सर्वयज्ञोपवीताय तुभ्यं
नमस्ते नमस्ते नमः शङ्कराय ॥ १९ ॥
श्रीशिवस्तोत्रेषु
शरच्चन्द्रहासं सुकर्पूरभासं
भजे पार्वतीशं महाताण्डवेशम् ॥ १२ ॥
स्फुरन्मुद्रिकारत्नराजत्कराङ्घ्रि
रणत्स्वर्णकोटीरर।जभुजौघम् ।
लसन्मध्यसम्बद्धपट्टाभिरामं
भजे पार्वतीशं महाताण्डवेशम् ॥ १३ ॥
स्फुरन्तं नदन्तं महान्तं दिगन्तं
वसन्तं महाश्चर्यवासो नितान्तम् ।
अनन्तं भवान्तं भवनीहृदन्तं
भजे पार्वतीशं महाताण्डवेशम् ॥ १४ ॥
महादेव देवादिदेवेश शम्भो
भवन्तं विना देवमन्यं न जाने ।
क्षणाराधनेनाशुतोषं महेशं
भजे पार्वतीशं महाताण्डवेशम् ॥ १५ ॥
नमस्ते नमस्ते शिवानन्दकीर्ते
नमस्ते नमस्ते भवानन्दमूर्ते ।
नमस्ते नमस्ते शरण्यैकमूर्ते
नमस्ते नमस्ताण्डवाडम्बराय ॥ १६ ॥
नमस्ते नमस्ते जगज्जन्मकर्त्रे
नमस्ते नमस्ते नमः फालनेत्र ।
नमस्ते नमस्ते हरायाग[घ]हर्त्रे
नमस्ते नमस्ताण्डवा डम्बराय ॥ १७ ॥
नमः पार्वतीप्राणनाथाय तुभ्यं
नमः सर्वलोकैकनाथाय तुभ्यम् ।
नमो विष्णुहृत्पद्मकोशाय तुभ्यं
नमस्ते नमस्ताण्डव डम्बराय ॥ १८ ॥
नमो दिव्यकैलासवासाय तुभ्यं
नमो दिव्यरत्नाहिभूषाय तुभ्यम् ।
नमः सर्वयज्ञोपवीताय तुभ्यं
नमस्ते नमस्ते नमः शङ्कराय ॥ १९ ॥