Stotrarnava /158
This page has not been fully proofread.
११२
1.
श्रीशिवस्तोत्रेषु
दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं
हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ८॥
सदन्तरङ्गसज्जनौघपापसङ्घनाशने
मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।
चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले
सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥
चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं
नुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।
सदा वशे[ से ] तदा लये हरिप्रिया तदानने
विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥
॥ इति श्रीचिदम्बरपञ्चचामरस्तोत्रं सम्पूर्णम् ॥
३८. ॥ अथ श्रीताण्डवस्तोत्रम् ॥
नमस्कृत्य रामं महादेवदेवं
भवानीकटाक्षेक्षणानन्दजालम् ।
तदालोकलोलं महानृत्यलीलं भजे
पार्वतीशं महाताण्डवेशम् ॥ १ ॥
भवान्तं भजे तं हृदन्ते महान्तं
भवाधि तरन्तेन्दुकुन्दावभासम्
[भवाब्धेस्तरन्तीं दुकूलावभासम् ] ।
तमीशं रमेशार्चिताङ्घ्रि [द्वयाब्जं ]
1
भजे पार्वतीशं महाताण्डवेशम् ॥ २ ॥
जटाजूटसोमं ललाटाक्षभीमं
नटाचार्यवामं सदा पूर्णकामम् ।
सदावामभामं हृदानन्दरामं
भजे पार्वतीशं महाताण्डवेशम् ॥ ३ ॥
धराश्रीशवागीशनागेशमुख्यैः
सुरैः सेवितं तालवीणादिहस्तैः ।
पदाघातसङ्घातसघृष्टदैत्यं
भजे पार्वतीशं महाताण्डवेशम् ॥ ४ ॥
तरन्ती = नौका ।
1.
श्रीशिवस्तोत्रेषु
दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं
हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ८॥
सदन्तरङ्गसज्जनौघपापसङ्घनाशने
मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।
चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले
सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥
चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं
नुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।
सदा वशे[ से ] तदा लये हरिप्रिया तदानने
विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥
॥ इति श्रीचिदम्बरपञ्चचामरस्तोत्रं सम्पूर्णम् ॥
३८. ॥ अथ श्रीताण्डवस्तोत्रम् ॥
नमस्कृत्य रामं महादेवदेवं
भवानीकटाक्षेक्षणानन्दजालम् ।
तदालोकलोलं महानृत्यलीलं भजे
पार्वतीशं महाताण्डवेशम् ॥ १ ॥
भवान्तं भजे तं हृदन्ते महान्तं
भवाधि तरन्तेन्दुकुन्दावभासम्
[भवाब्धेस्तरन्तीं दुकूलावभासम् ] ।
तमीशं रमेशार्चिताङ्घ्रि [द्वयाब्जं ]
1
भजे पार्वतीशं महाताण्डवेशम् ॥ २ ॥
जटाजूटसोमं ललाटाक्षभीमं
नटाचार्यवामं सदा पूर्णकामम् ।
सदावामभामं हृदानन्दरामं
भजे पार्वतीशं महाताण्डवेशम् ॥ ३ ॥
धराश्रीशवागीशनागेशमुख्यैः
सुरैः सेवितं तालवीणादिहस्तैः ।
पदाघातसङ्घातसघृष्टदैत्यं
भजे पार्वतीशं महाताण्डवेशम् ॥ ४ ॥
तरन्ती = नौका ।