Stotrarnava /157
This page has been fully proofread once and needs a second look.
<page>
<title text="37_START">३७. ॥ अथ श्रीचिदम्बरपञ्चचामरस्तोत्रम् ॥</title>
<verse>कदम्बकाननप्रियं चिदम्बया विहारिणं
मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् ।
सदम्भकामखण्डनं सदम्बुवाहिनीधरं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १ ॥</verse>
<verse>समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं
प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् ।
करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २ ॥</verse>
<verse>जटाकिरीटमण्डितं निटाललोचनान्वितं
पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् ।
नटौघपूर्वभाविनं कुठारपाशधारिणं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३॥</verse>
<verse>कुरङ्गशाबशोभि<add>[तं]</add> चिरं गजाननार्चितं
पुराङ्गानाविचारदं वराङ्गरागरञ्जितम् ।
खराङ्गजातनाशकं तुरङ्गमीकृतागमं
हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ४ ॥</verse>
<verse>अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं
सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् ।
शमं दमं दयालुताममन्दयन्तमात्मनो
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५॥</verse>
<verse>करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं
सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् ।
अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६ ॥</verse>
<verse>मलापहारिणीतटे सदा विलासकारिणं
बलारिशापभञ्जनं ललामरूपलोचनम् ।
लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं
हृदम्बुजे जगद्गुरूं चिदम्बरं विभावये ॥ ७ ॥</verse>
<verse merge-next="true">शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं
विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् ।</verse>
</page>