Proofing

2026-04-02 21:26:47 by ambuda-bot

This page has not been fully proofread.

३२. ॥ अथ श्रीअगस्त्येशलिङ्गाष्टकम् ॥
श्रीमत्पर्वत पुत्रिकाश्रितलसद्वामाङ्गमिन्ज्ज्ज्वल-
 
कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली-
सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं
 
श्रीगुण्टू रिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं
शक्राद्यष्ट दिगीशसंनुतपदं शुम्भद्गणाधीश्वरम् ।
गङ्गोत्तङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं
 
श्रीगुन्टूरि पुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २ ॥
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं
मत्तामर्त्यविरोधिगर्वनगगीदम्भोलिधारायितम् ।
वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं
 
श्री गुण्टू रिपुराधिवासमतुला गस्त्येशलिङ्गं भजे ॥ ३॥
भूम्यपोऽग्निसमीरणाम्बरलसत्सोमार्कयज्वा 'भिधै-
रष्ठैरिष्ट्रवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।
भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं
श्रीगुण्टू रिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४ ॥
सूर्यानीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत-
 
प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम्
कण्ठ(कल्पविलास भासुरमहाहालाहलं शङ्करं
 
श्री गुण्टू रिपुराधिवासमतुला गस्त्येशलिङ्गं भजे ॥ ५ ॥
श्रीमद्भूमिरथं विरिञ्चि विलसत्सूतं नगाधीशस-
चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् ।
पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं
 
श्री गुण्टू रिपुराधिवासमतुलागस्त्येशलिंङ्गं भजे ॥ ६ ॥
दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान्
चन्द्रं तच्छुशुरं भगं मुनिगणानग्निं च दक्षं लसत् ।
स्वेदोद्भूतविनीलदेहरुचिना वीरेण संत्रासितं [ त्रासकं ]
श्री गुण्टू रिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७ ॥
 
1. प्रभञ्जना
 
2. स्वात्मा