Stotrarnava /148
This page has been fully proofread once and needs a second look.
<page>
<ignore>१०२
श्रीशिवस्तोत्रेषु
</ignore>
<verse>हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं-
दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः ।
मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५ ॥
</verse>
<verse>शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रं
भास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् ।
गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६ ॥
</verse>
<verse>मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द-
:
द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति ।
उक्त्वा मृत्युं <delete>वि</delete><add>[च ]</add>जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७ ॥
</verse>
<verse>सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र-
स्यास्यानी के सुरोषाद्विगलितगरलं रुद्रनेत्राग्नितुल्यम् ।
लोकानीकावनार्थं'<ref>1</ref>कबलितसुमतिर्यो महेशः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८ ॥
</verse>
<verse>ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त-
स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् ।
सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९ ॥
</verse>
<verse>नन्दीशानन्दनाट्यप्रियमखिलकलाकोविंदं सर्वविद्या-
साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् ।
छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १० ॥
</verse>
<verse>मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभं
नित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः ।
सद्भूमौ सर्वभोगैरनवरतसुखं <delete>प्राप्तवान् </delete> <add>[प्राप्नुयात् ]</add> सर्वदेवैः ।
सन्मान्यः श्लाघनीयः स भवति भगवान् श्रीगुरोः सत्प्रसादात् ॥ ११ ॥
1. क्रवलयति
</verse>
<trailer>॥ श्रीमार्कण्डेयेश्वरेशस्तवः सम्पूर्णः ॥
</trailer>
<footnote>1. क्रवलयति</footnote>
</page>
<ignore>१०२
<verse>हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं-
दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः ।
मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५ ॥
<verse>शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रं
भास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् ।
गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६ ॥
<verse>मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द-
:
द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति ।
उक्त्वा मृत्युं <delete>वि</delete><add>[च ]</add>जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७ ॥
<verse>सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र-
स्यास्यानी
लोकानीकावनार्थं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८ ॥
<verse>ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त-
स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् ।
सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९ ॥
<verse>नन्दीशानन्दनाट्यप्रियमखिलकलाकोविंदं सर्वविद्या-
साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् ।
छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १० ॥
<verse>मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभं
नित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः ।
सद्भूमौ सर्वभोगैरनवरतसुखं <delete>प्राप्तवान्