Stotrarnava /148
This page has not been fully proofread.
१०२
श्रीशिवस्तोत्रेषु
हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं-
दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः ।
मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५ ॥
शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रं
भास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् ।
गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६ ॥
मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द-
:
द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति ।
उक्त्वा मृत्युं वि[च]जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७ ॥
सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र-
स्यास्यानी के सुरोषाद्विगलितगरलं रुद्रनेत्राग्नितुल्यम् ।
लोकानीकावनार्थं 'कबलितसुमतिर्यो महेशः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८ ॥
ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त-
स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् ।
सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९ ॥
नन्दीशानन्दनाट्यप्रियमखिलकलाकोविंदं सर्वविद्या-
साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् ।
छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १० ॥
मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभं
नित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः ।
सद्भूमौ सर्वभोगैरनवरतसुखं प्राप्तवान् [प्राप्नुयात् ] सर्वदेवैः ।
सन्मान्यः श्लाघनीयः स भवति भगवान् श्रीगुरोः सत्प्रसादात् ॥ ११ ॥
1. क्रवलयति
॥ श्रीमार्कण्डेयेश्वरेशस्तवः सम्पूर्णः ॥