Stotrarnava /147
This page has not been fully proofread.
श्रीमार्कण्डेयेश्वरेशस्तवः
कल्याणाचलका र्मुकप्रथितदुग्धाम्भोधिकन्यामनः-
कञ्जातभ्रमरायमाणविलसद्गोविन्दसन्मार्गणः ।
धात्री स्यन्दनभासमाननलिनीजात [प्त ] त्रयीसैन्धवः
श्रीमत्पर्वतमल्लिकार्जुन महादेवः शिवो मे गतिः ॥ ६ ॥
गोराजोत्तमवाहनः शशिकलालङ्कारजूटः सदा
पद्मानायकसायकस्त्रिभुवनाधीशः पशूनां पतिः ।
भक्ताभीष्टफलप्रदान चतुरः कारुण्यपाथोनिधिः
श्रीमत्पर्वतमल्लिकार्जुन महादेवः शिवो मे गतिः ॥ ७ ॥
पातालामरवाहिनीवरजलक्रीडासमेतः सदा
रम्भाकननवाटिकाविहरणोद्युक्तत्रयीगोचरः ।
फालाक्षो भ्रमराम्बिकाहृदयपङ्केजातपुष्पन्धयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ८ ॥
॥ इति श्रीमल्लिकार्जुनस्तोत्रं सम्पूर्णम् ॥
२९.
॥ अथ श्रीमार्कण्डेयेश्वरेशस्तवः ॥
सर्वेषां दैवतानां सकलसुखफलप्राप्तये पूजकानां
कार्याधीशो गणेशो नगवरतनयानन्द चेष्टाभिरामः ।
यस्य श्रीशेश्वरस्य प्रथितगुणगणालङ्कृतस्यात्मजस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १ ॥
वैकुण्ठाधीशमायामय सुखगवधूरूप संदर्शनाद्यो
मोहात्सम्भ्रान्तमान[म्यमाण ] स्सहगमनकला चातुरीयुक्तचित्तः ।
तन्मायास्त्रीशरीरे वटुकमजनयद्भासते यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ २ ॥
यस्याङ्गे[ग्निः ] फालभागे सुललितनयनं सव्यभागे भवानी
हस्ते ब्रह्मोत्तमाङ्गं सगरलसुगले ब्रह्मशीर्षालिमाला ।
अङ्गेऽनङ्गाङ्गभूतिः पदकमलयुगे विष्णुनेत्राम्बुजातं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ३ ॥
यस्य श्रीमौलिभूषा कुमुदहित कलाभासमानोत्तमाङ्गे
विद्युत्कान्ते विलसित सुजटामण्डले व्योमगङ्गा ।
कण्ठे वज्रासिनीलोपलनिभगरलं भासते यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ४ ॥ --
१०१