Stotrarnava /146
This page has not been fully proofread.
१००
श्रीशिवस्तोत्रेषु
नानाविधागमरहस्यविबोधकाय
स्वीयानुभावपरिकल्पित भावनाय ।
भक्ताय भक्तिविवशान्मलनाशनाय
स्वर्गापवर्गसुखदाय नमः शिवाय ॥ ७ ॥
लोकत्रयाध्व[घ]हरणोत्सुकमानसाय
लोकत्रयार्चितपदाय जगन्मयाय ।
श्रीभट्टबाणकविसूक्तिविराजिताय
कैवल्यदाननिपुणाय नमः शिवाय ॥ ८ ॥
॥ इति श्रीबाणाष्टकं सम्पूर्णम् ॥
२८. ॥ अथ श्रीमल्लिकार्जुनस्तोत्रम् ॥
श्रीकण्ठादिसमस्तरुद्रनमितो वामार्धजानिः शिवः
प्रालेयाचलहारहीरकुमुदक्षीराब्धितुल्यप्रभः ।
विष्वक्सेनविघातमस्तमकुटीरत्नप्रभाभास्वरः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ १ ॥
इन्द्राद्यामरयातुधानकरवल्लीवेल्लिताशीविषा-
धीश कर्षितमन्दरागमथिताम्भोरा शिजातस्फुर-
त्कीला संहितविस्फुलिङ्गगरलग्रासैकशाम्यद्भयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ २ ॥
उद्यद्भासुरकासरासुरभुजादर्पाद्रिदम्भोलिभृ-
परामरधेनुनायकककुद्विन्यस्तहस्ताम्बुजः ।
नीहाराचलकन्यकावहनपादद्वन्द्वपादोरुहः
श्रोमत्पर्वतमल्लिकार्जुन महादेवः शिवो मे गतिः ॥ ३ ॥
नीरेजासन मुख्य निर्जरशिरः प्रच्छन्नपादद्वयः
सर्वज्ञत्रिपुरासुराहितगणाम्भोदौघझञ्झानिलः ।
मार्कण्डेय महामुनीश्वरनुत प्रख्यातचारित्रकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ४ ॥
सद्भक्तावलिमानसाम्बुरुहचञ्चचञ्चरीको मृड:
क्रीडाबन्धुरपाणिहृत्कमलपोतः कर्णगोकर्णराट् ।
चक्री चक्रसमस्त भूषणगणः कोलासुरध्वंसकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ५ ॥