Stotrarnava /145
This page has not been fully proofread.
श्री बाणाष्टकम्
श्रीपञ्चाक्षरमन्त्रमष्टशतसङ्ख्याकस्तवं सर्वदा
ये शृण्वन्ति पठन्ति पावनजनास्तेषां तु रोगौषधम् ।
वेदान्तोद्भवचिद्विशिष्ट' वचसामप्यूहतां दुर्लभं
विन्दन्तीन्दुकलाधरं च सुतरां सायुज्यमुक्तिं मुदा ॥ ५५ ॥
॥ इति श्रीनमश्शिवायरगडा सम्पूर्णा ॥
२७. ॥ अथ श्रीबाणाष्टकम् ॥
श्रीमत्कपर्दितटिनीतटशोभनाय
शीतांशुरेखपरिकल्पित शेखराय ।
नित्याय निर्मलगुणाय निरञ्जनाय
नीहारहारधवलाय नमः शिवाय ॥। १॥
डिण्डीरपिण्डपरिपाण्डुरविग्रहाय
दीव्यज्जटापटलमण्डितमस्तकाय ।
नागेन्द्र कृत्तिवासनाय निरामयाय
नारायणप्रियतमाय नमः शिवाय ॥ २ ॥
दर्वीकराकलितकुण्डलमध्यमानं [ मण्डयमान ]
गण्डाय चण्डसुरशात्रवदण्डनाय ।
आखण्डलादिसुरमण्डलमध्यमान [ वन्द्यमान ]
पादाम्बुजाय वरदाय नमः शिवाय ॥३॥
कालान्तकाय कमलासन पूजिताय
कल्याणशैलपरिकल्पितकार्मुकाय ।
कन्दर्पदर्पदहनाथ कलाधराय
कारुण्यपुण्यनयनाय नमः शिवाय ॥ ४॥
विश्वेश्वराय बृषभोत्तमवाहनाय
विध्वस्तदक्षविहरा[विहिता ] ध्वरविभ्रमाय ।
गङ्गाधराय गजदानवमर्दनाय
दोर्दण्डदण्डविभवाय नमः शिवाय ॥ ५ ॥
सोमानलार्क परिकल्पितलोचनाय
सोमार्कवह्निमुनिपुङ्गव सेविताय ।
भूतेश्वराय भुवनत्रयनाय काय
भूत्यङ्गरागशुभदाय नमः शिवाय ॥ ६ ॥
1. मनसामप्यूह्यतां
श्रीपञ्चाक्षरमन्त्रमष्टशतसङ्ख्याकस्तवं सर्वदा
ये शृण्वन्ति पठन्ति पावनजनास्तेषां तु रोगौषधम् ।
वेदान्तोद्भवचिद्विशिष्ट' वचसामप्यूहतां दुर्लभं
विन्दन्तीन्दुकलाधरं च सुतरां सायुज्यमुक्तिं मुदा ॥ ५५ ॥
॥ इति श्रीनमश्शिवायरगडा सम्पूर्णा ॥
२७. ॥ अथ श्रीबाणाष्टकम् ॥
श्रीमत्कपर्दितटिनीतटशोभनाय
शीतांशुरेखपरिकल्पित शेखराय ।
नित्याय निर्मलगुणाय निरञ्जनाय
नीहारहारधवलाय नमः शिवाय ॥। १॥
डिण्डीरपिण्डपरिपाण्डुरविग्रहाय
दीव्यज्जटापटलमण्डितमस्तकाय ।
नागेन्द्र कृत्तिवासनाय निरामयाय
नारायणप्रियतमाय नमः शिवाय ॥ २ ॥
दर्वीकराकलितकुण्डलमध्यमानं [ मण्डयमान ]
गण्डाय चण्डसुरशात्रवदण्डनाय ।
आखण्डलादिसुरमण्डलमध्यमान [ वन्द्यमान ]
पादाम्बुजाय वरदाय नमः शिवाय ॥३॥
कालान्तकाय कमलासन पूजिताय
कल्याणशैलपरिकल्पितकार्मुकाय ।
कन्दर्पदर्पदहनाथ कलाधराय
कारुण्यपुण्यनयनाय नमः शिवाय ॥ ४॥
विश्वेश्वराय बृषभोत्तमवाहनाय
विध्वस्तदक्षविहरा[विहिता ] ध्वरविभ्रमाय ।
गङ्गाधराय गजदानवमर्दनाय
दोर्दण्डदण्डविभवाय नमः शिवाय ॥ ५ ॥
सोमानलार्क परिकल्पितलोचनाय
सोमार्कवह्निमुनिपुङ्गव सेविताय ।
भूतेश्वराय भुवनत्रयनाय काय
भूत्यङ्गरागशुभदाय नमः शिवाय ॥ ६ ॥
1. मनसामप्यूह्यतां