Proofing

2026-04-02 21:26:45 by ambuda-bot

This page has not been fully proofread.

२८
 
श्रीशिवस्तोत्रेषु
 
कम्बलाश्वतरविचित्रगान ते नमः शिवाय ।
 
साम्ब जूटबन्ध जलबिहार ते नमः शिवाय ॥। ४१ ॥
 
अभयवरदटङ्कपरशुहस्त ते नमः शिवाय ।
सभयपूर्वदेवताप्रशस्त ते नमः शिवाय ॥। ४२ ॥
 
पटुविलासरजतकाण्डभाण्ड ते नमः शिवाय ।
कटिविराजमानचर्मखण्ड ते नमः शिवाय ॥ ४३ ॥
 
चटुलमस्तघटितबालचन्द्र ते नमः शिवाय ।
 
चटुलभुवनकीर्तिसान्द्रचन्द्र ते नमः शिवाय ॥ ४४ ॥
 
शमदमादियुक्तभक्तसक्त ते नमः शिवाय ।
 
प्रमथवचनरचनसानुरक्त ते नमः शिवाय ॥ ४५ ॥
 
उरुतराश्वभावगतमहोक्ष ते नमः शिवाय ।
परितभरमपूर्ण गरलभक्ष ते नमः शिवाय ॥ ४६ ॥
 
अम्बुराशिमेखलाचिताङ्ग ते नमः शिवाय ।
शम्बहस्त सुरवरप्रसङ्ग ते नमः शिवाय ॥ ४७ ॥
 
कपट नाटकप्रबोधकाय ते नमः शिवाय ।
तपनमण्डलान्तरस्थिताय ते नमः शिवाय ॥ ४८ ॥
 
अजगवाख्यचापसङ्ग्रहाय ते नमः शिवाय ।
कजभवादिसेव्यपादुकाय ते नमः शिवाय ॥ ४९ ॥
 
सकलनिष्कला मृतद्रुसाल ते नमः शिवाय ।
प्रकटवीतिहोत्रनीलफाल ते नमः शिवाय ॥ ५० ॥
 
नलिनबन्धुकदनभञ्जनाय ते नमः शिवाय ।
 
कलितवीरभद्र नामकाय ते नमः शिवाय ॥ ५१ ॥
 
अखिलजनभयङ्कराट्टहास ते नमः शिवाय ।
 
अखिलसेवकौघसुखदहास ते नमः शिवाय ॥ ५२ ॥
 
लयविलूनपवनमित्ररसन ते नमः शिवाय ।
 
लयभयामृतामराप्तरसन ते नमः शिवाय ॥ ५३ ॥
 
नरहरि प्रकृष्टगर्वहरण ते नमः शिवाय ।
 
शरभसालुवस्वरूपभरण ते नमः शिवाय ॥ ५४ ॥