Proofing

2026-04-02 21:26:45 by ambuda-bot

This page has not been fully proofread.

श्रीनमरिशवाय रगडा
 
रुद्राय भद्रचरिताय महोक्षगाय
 
शूलाभयानि मृगचर्मपराङ्कुशाय ( ? ) ।
पादानतार्तिदलनाय पलाशिहन्त्रे
 
मृयुंजयाय विजयाय नमः शिवाय ॥ ८ ॥
॥ इति श्रीनमशिवाष्टकं सम्पूर्णम् ॥
 
२६. ॥ अथ श्रीनमः शिवाय रगडा ।
श्रीकराय दन्ति चर्मचेलिने नमः शिवाय ।
भाकराय भक्तलोकपालिने नमः शिवाय ॥ १ ॥
 
कारणादिकारणात्मकाय ते नमः शिवाय ।
दारुणासुरेन्द्रगर्वेदाय ते नमः शिवाय ॥ २ ॥
भूतनायकाय लिप्तभूत ते नमः शिवाय ।
सूतकार्यकृत्पयोजसूत ते नमः शिवाय ॥ ३ ॥
पाहि मां महेश शर्व भर्ग ते नमः शिवाय ।
वाहनाय मानवेदवर्ग ते नमः शिवाय ॥ ४ ॥
साम्ब नीलकण्ठ देवशरण ते नमः शिवाय ।
साम्बजनकवन्द्यमानचरण ते नमः शिवाय ॥ ५ ॥
काशिनाथ वरद रक्षकाय ते नमः शिवाय ।
काशमल्लिका प्रकाशकाय ते नमः शिवाय ॥ ६॥
 
राजताच लेन्द्रमन्दिराय ते नमः शिवाय ।
राजखण्डभृच्छिखान्तराय ते नमः शिवाय ॥ ७ ॥
 
मोक्षदायकाय धन्य [दैव ] मुख्य ते नमः शिवाय ।
साक्षिमात्रकाय [विष्णुसख्य ] ते नमः शिवाय ॥ ८ ॥
 
भृङ्गिताण्डवप्रियाय भीम ते नमः शिवाय ।
 
गाङ्गवारिमस्त वीथिकाण्ड [ वीतकाम ] ते नमः शिवाय ॥ ९ ॥
 
जातरूपभूत रुद्र [ भूधरेन्द्र ] चाप ते नमः शिवाय ।
सूतकालहस्तिवरदरूप ते नमः शिवाय ॥ १० ॥
 
गिरिश वारिवाहमार्गकेश ते नमः शिवाय ।
गरलकण्ठ सत्य चित्प्रकाश ते नमः शिवाय ॥ ११ ॥
 
९५