Stotrarnava /140
This page has been fully proofread once and needs a second look.
<page>
<footnote>२५. ॥ अथ श्रीनमशिवाष्टकम् ॥
</footnote>
<verse>आद्याय सर्वजगतामखिलेष्टदाय
नित्याय निर्जितसुरासुरवैभवाय ।
कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रे
देवाय भक्तवरदाय नमः शिवाय ॥ १ ॥
</verse>
<verse>गङ्गाधराय गरुडध्वजवन्दिताय
गौरीसखाय करूणा मृतसागराय ।
उद्गातने <add>(?)</add> कुसुमकर्बुरकन्धराय
पूर्णाय पुष्करकचाय नमः शिवाय ॥ २ ॥
</verse>
<verse>संसारसागरसमुत्तरणष्प्लवाय
सोमानलार्कनयनाय सुरार्चिताय ।
दुष्कर्मधर्मजलदाय दुरासदाय
दुष्टात्मनां पुरहराय नमः शिवाय ॥ ३ ॥
</verse>
<verse>वेदाय वेदनिलयाय विदां वराय
विज्ञानमात्रवपुषे विविधात्मकाय ।
यज्ञान्तकाय यजतामभयप्रदाय
यज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४॥
</verse>
<verse>यन्नाम जन्तुरवशोऽपि गृणन् कदाचित्
यामीं न याति भयदामिह यातनालिम् ।
तस्मै जरामरणजन्मभयातिगाय
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५ ॥
</verse>
<verse>नान्तं च मध्यमथवादिमजः स चाहं
विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि ।
जानन्ति सन्मुनिवराश्च तथामरेशाः
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६ ॥
</verse>
<verse>भूतेश्वराय भुजगेन्द्रविभूषणाय
भूतित्रयाय भुवनाधिपवन्दिताय ।
पीताम्बरप्रियसखाय पिनाकदोष्णे
नानाविचित्र गतयेऽस्तु नमः शिवाय ॥ ७ ॥
</verse>
</page>
<footnote>२५. ॥ अथ श्रीनमशिवाष्टकम् ॥
<verse>आद्याय सर्वजगतामखिलेष्टदाय
नित्याय निर्जितसुरासुरवैभवाय ।
कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रे
देवाय भक्तवरदाय नमः शिवाय ॥ १ ॥
<verse>गङ्गाधराय गरुडध्वजवन्दिताय
गौरीसखाय करूणा
उद्गातने <add>(?)</add> कुसुमकर्बुरकन्धराय
पूर्णाय पुष्करकचाय नमः शिवाय ॥ २ ॥
<verse>संसारसागरसमुत्तरण
सोमानलार्कनयनाय सुरार्चिताय ।
दुष्कर्मधर्मजलदाय दुरासदाय
दुष्टात्मनां पुरहराय नमः शिवाय ॥ ३ ॥
<verse>वेदाय वेदनिलयाय विदां वराय
विज्ञानमात्रवपुषे विविधात्मकाय ।
यज्ञान्तकाय यजतामभयप्रदाय
यज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४॥
<verse>यन्नाम जन्तुरवशोऽपि गृणन् कदाचित्
यामीं न याति भयदामिह यातनालिम् ।
तस्मै जरामरणजन्मभयातिगाय
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५ ॥
<verse>नान्तं च मध्यमथवादिमजः स चाहं
विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि ।
जानन्ति सन्मुनिवराश्च तथामरेशाः
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६ ॥
<verse>भूतेश्वराय भुजगेन्द्रविभूषणाय
भूतित्रयाय भुवनाधिपवन्दिताय ।
पीताम्बरप्रियसखाय पिनाकदोष्णे
नानाविचित्र
</page>