Proofing

2026-04-02 21:26:45 by ambuda-bot

This page has not been fully proofread.

२५. ॥ अथ श्रीनमशिवाष्टकम् ॥
आद्याय सर्वजगतामखिलेष्टदाय
नित्याय निर्जितसुरासुरवैभवाय ।
कुन्देन्दुगौरवपुषे कुसुमात्रहन्त्रे
 
देवाय भक्तवरदाय नमः शिवाय ॥ १ ॥
 
गङ्गाधराय गरुडध्वजवन्दिताय
 
गौरीसखाय करूणा मृतसागराय ।
 
उद्गातने (?) कुसुमकर्बुरकन्धराय
 
पूर्णाय पुष्करकचाय नमः शिवाय ॥ २ ॥
 
संसारसागरसमुत्तरणष्प्लवाय
सोमानलार्कनयनाय सुरार्चिताय ।
 
दुष्कर्मधर्मजलदाय दुरासदाय
 
दुष्टात्मनां पुरहराय नमः शिवाय ॥ ३ ॥
 
वेदाय वेदनिलयाय विदां वराय
 
विज्ञानमात्रवपुषे विविधात्मकाय ।
 
यज्ञान्तकाय यजतामभयप्रदाय
 
यज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४॥
 
यन्नाम जन्तुरवशोऽपि गृणन् कदाचित्
 
यामीं न याति भयदामिह यातनालिम् ।
तस्मै जरामरणजन्मभयातिगाय
 
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५ ॥
 
नान्तं च मध्यमथवादिमजः स चाहं
विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि ।
जानन्ति सन्मुनिवराश्च तथामरेशाः
 
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६ ॥
 
भूतेश्वराय भुजगेन्द्रविभूषणाय
 
भूतियाय भुवनाधिपवन्दिताय ।
पीताम्बरप्रियसखाय पिनाकदोष्णे
 
नानाविचित्र गतयेऽस्तु नमः शिवाय ॥ ७ ॥