Stotrarnava /139
This page has not been fully proofread.
श्रीनमशिवाष्टकम्
कुन्देन्दुशङ्खस्फटिकोपमाय
महेश्वरायाश्रितवत्सलाय ।
श्रीनीलकण्ठाय यमान्तकाय
शिवासमेताय नमः शिवाय ॥ २ ॥
भुजङ्गचक्राधिपभूषणाय
नानामणिभ्राजितकुण्डलाय ।
कर्पूरगौराय सुरेश्वराय
शिवासमेताय नमः शिवाय ॥ ३ ॥
घोराधिकाघौघनिवारणाय
स्वर्गापवर्गादिफलप्रदाय ।
निरामयायान्धकसूदनाय
शिवासमेताय नमः शिवाय ॥ ४ ॥
त्रिकाकालाय मनोन्मनाय
त्रियम्बकाय त्रिपुरान्तकाय ।
कालाग्निरुद्राय जगन्मयाय
शिवासमेताय नमः शिवाय ॥ ५ ॥
दयासमुद्राय निधीश्वराय
धनेशमित्राय सुधामयाय ।
कारुण्यरूपाय मनस्कराय
शिवासमेताय नमः शिवाय ॥ ६ ॥
ब्रह्मेन्द्रविष्ण्वादिसुरार्चिताय
देवादिदेवाय दिगम्बराय ।
अनन्तकल्याणगुणार्णवाय
शिवासमेताय नमः शिवाय ॥ ७ ॥
वेदान्तवेद्याय जगन्मयाय
कैलासवासाय शिवाधराय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमः शिवाय ॥ ८ ॥
इति स्तुत्वा महादेव सर्वव्यापिनमीश्वरम् ।
पुनः पुनः प्रणम्याथ स्कन्दस्तस्थौ कृताञ्जलिः ॥ ९ ॥
॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥
९३
कुन्देन्दुशङ्खस्फटिकोपमाय
महेश्वरायाश्रितवत्सलाय ।
श्रीनीलकण्ठाय यमान्तकाय
शिवासमेताय नमः शिवाय ॥ २ ॥
भुजङ्गचक्राधिपभूषणाय
नानामणिभ्राजितकुण्डलाय ।
कर्पूरगौराय सुरेश्वराय
शिवासमेताय नमः शिवाय ॥ ३ ॥
घोराधिकाघौघनिवारणाय
स्वर्गापवर्गादिफलप्रदाय ।
निरामयायान्धकसूदनाय
शिवासमेताय नमः शिवाय ॥ ४ ॥
त्रिकाकालाय मनोन्मनाय
त्रियम्बकाय त्रिपुरान्तकाय ।
कालाग्निरुद्राय जगन्मयाय
शिवासमेताय नमः शिवाय ॥ ५ ॥
दयासमुद्राय निधीश्वराय
धनेशमित्राय सुधामयाय ।
कारुण्यरूपाय मनस्कराय
शिवासमेताय नमः शिवाय ॥ ६ ॥
ब्रह्मेन्द्रविष्ण्वादिसुरार्चिताय
देवादिदेवाय दिगम्बराय ।
अनन्तकल्याणगुणार्णवाय
शिवासमेताय नमः शिवाय ॥ ७ ॥
वेदान्तवेद्याय जगन्मयाय
कैलासवासाय शिवाधराय ।
शिवस्वरूपाय सदाशिवाय
शिवासमेताय नमः शिवाय ॥ ८ ॥
इति स्तुत्वा महादेव सर्वव्यापिनमीश्वरम् ।
पुनः पुनः प्रणम्याथ स्कन्दस्तस्थौ कृताञ्जलिः ॥ ९ ॥
॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥
९३