Proofing

2026-04-02 21:26:44 by ambuda-bot

This page has not been fully proofread.

૨૮
 
श्रीशिवस्तोत्रेषु
 
जातस्य जायमानस्य गर्भस्थस्यापि देहिनः ।
मा भून्मम कुले जन्म यस्य शम्भुर्न दैवतम् ॥ ५ ॥
 
वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत्कुलदैवतम् ॥ ६ ॥
हर शम्भो महादेव विश्वेशामरवल्लभ ।
 
हरिकेश विरूपाक्ष त्राहि मां पापसंहर [पापसञ्चयात् ] ॥ ७ ॥
 
अगस्त्याष्टकमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
 
तस्य मृत्युभयं नास्ति शिवेन सह मोदते ॥ ८ ॥
 
॥ इति श्रीअगस्त्याष्टकं सम्पूर्णम् ॥
 
२१. ॥ अथ श्रीगिरीशाष्टकम् ॥
 
क्षीराम्भोराशितूणं धृतपरशुधनुः शूलदीव्यत्कृपाणं
गौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् ।
तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं
 
वीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १ ॥
 
सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मे रुचापं
 
कृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् ।
 
श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानं
 
प्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २ ॥
 
कैलासग्रावतुल्योज्ज्वलवृष भकुलाध्यक्षसन्नद्धकेतुं
 
लोलदुग्धप्रवाहार्गलम कुटतटीवेष्टिताहीन्द्रसेतुम् ।
 
पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुं
 
पञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३ ॥
 
भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजं
 
रुद्रं मुद्रीकृताधं पशुपतिगमनं वीरभद्रं विनिद्रम् ।
 
शवं सर्वसहामण्डलमहितरथं सत्पथं निर्विरोधं
 
नादं वेदाविभेदं वरदमभयदं श्रीगिरीशं भजेऽहम् ॥ ४ ॥
 
ज्योतीरूपं दुरापं विलयजलधरोद्दण्डचण्डाट्टहासं
विद्युद्वल्लीमतल्लीरुचिरपटुजटानद्धमुग्धेन्दुखण्डम् ।
 
i