Stotrarnava /132
This page has not been fully proofread.
८६
श्रीशिवस्तोत्रेषु
जटामण्डले नानटद्दिव्यगङ्गा-
झरीतुङ्गवीचिच्छटा दीप्यमानम् ।
पटीभूतकृत्तिं नटालीवरेण्यं
भजे शङ्करं वालिशैलाधिनाथम् ॥ २ ॥
दलत्कुन्दमन्दारकर्पूरगौरं
गलद्भस्मरेखाविजृम्भल्ललाटम् ।
बलारिस्तुतं बालवालेन्दुमौलि
भजे शङ्करं वालिशैलाथिनाथम् ॥ ३ ॥
॥ इति श्रीवालिशैलाधिनाथत्रयं सम्पूर्णम् ॥
१९. ॥ अथ श्री वीरभद्राष्टकम् ॥
दक्षाध्वरध्वंसविधानदक्षं
दम्भोलितुल्यायतबाहुवृन्दम् ।
फालोज्ज्वलन्नेत्रहुताशनेन
भस्मीकृतारिं भज वीरभद्रम् ॥ १ ॥
कङ्कालदण्डं कठिनोग्रदंष्ट्रं
कपालमाë[ला]कमनीयहारम् ।
कन्दर्पदर्पापहसर्पहारं
भस्माङ्गलेपं भज वीरभद्रम् ॥ २ ॥
भूतेशमीशं भुजगाभिरामं
भस्मीकृताशेषपुरप्रतापम् ।
उन्निद्रपद्मायतनेत्रपद्मं
श्री वीरभद्रं भज वीरभद्रम् ॥ ३ ॥
कालाञ्जनश्यामलकोमलाङ्गं
कण्ठान्तरस्थापितकालकूटम् ।
भागीरथी चुम्बितमौलिभागं
फालाग्निनेत्रं भज वीरभद्रम् ॥ ४ ॥
1.
कृत्यं
श्रीशिवस्तोत्रेषु
जटामण्डले नानटद्दिव्यगङ्गा-
झरीतुङ्गवीचिच्छटा दीप्यमानम् ।
पटीभूतकृत्तिं नटालीवरेण्यं
भजे शङ्करं वालिशैलाधिनाथम् ॥ २ ॥
दलत्कुन्दमन्दारकर्पूरगौरं
गलद्भस्मरेखाविजृम्भल्ललाटम् ।
बलारिस्तुतं बालवालेन्दुमौलि
भजे शङ्करं वालिशैलाथिनाथम् ॥ ३ ॥
॥ इति श्रीवालिशैलाधिनाथत्रयं सम्पूर्णम् ॥
१९. ॥ अथ श्री वीरभद्राष्टकम् ॥
दक्षाध्वरध्वंसविधानदक्षं
दम्भोलितुल्यायतबाहुवृन्दम् ।
फालोज्ज्वलन्नेत्रहुताशनेन
भस्मीकृतारिं भज वीरभद्रम् ॥ १ ॥
कङ्कालदण्डं कठिनोग्रदंष्ट्रं
कपालमाë[ला]कमनीयहारम् ।
कन्दर्पदर्पापहसर्पहारं
भस्माङ्गलेपं भज वीरभद्रम् ॥ २ ॥
भूतेशमीशं भुजगाभिरामं
भस्मीकृताशेषपुरप्रतापम् ।
उन्निद्रपद्मायतनेत्रपद्मं
श्री वीरभद्रं भज वीरभद्रम् ॥ ३ ॥
कालाञ्जनश्यामलकोमलाङ्गं
कण्ठान्तरस्थापितकालकूटम् ।
भागीरथी चुम्बितमौलिभागं
फालाग्निनेत्रं भज वीरभद्रम् ॥ ४ ॥
1.
कृत्यं