Proofing

2026-04-02 21:26:43 by ambuda-bot

This page has not been fully proofread.

1
 
श्रीवालिशैलाधिनाथत्रयम्
 
नमः शिवाभ्यां रविलोचनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशिस्तोममुखाम्बुजाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥
नमः शिवाभ्यां शशिशेखराभ्यां
समस्तसम्पत्परिपूरिताभ्याम् ।
 
समस्त विद्याभिरुपासिताभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥
नमः शिवाभ्यां नयनोत्सुकाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥
 
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
 
नगेन्द्रकन्यावृषकेतनाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ' ॥ ९ ॥
 
नमः शिवाभ्यामशिवापहाभ्यां
 
अशेषकल्याण विशेषिताभ्याम् ।
असम्भवाभ्यां श्रुतिसम्भवाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ १० ॥
 
नमस्कारात्मकं स्तोत्रं व्यासेन परिकीर्तितम् ।
 
यः पठेच्छावयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ ११ ॥
 
॥ इति श्रीवेदव्यासकृतं नमस्कारदशकस्तोत्रं सम्पूर्णम् ॥
 
१८. ॥ अथ श्रीवालिशैलाधिनाथत्रयम् ॥
 
अजं वेदसारं भुजङ्गेन्द्रहारं
 
निजारा धनोद्यत्प्रजाहृद्विहारम् ।
 
गजेशार्चितं शैलजा चित्तचोरं
 
भजे शङ्करं वालिशैलाधिनाथम् ॥ १ ॥
 
1. श्रीमच्छङ्करभगवत्पादकृत सौन्दर्यलहर्यामादिमः श्लोकोऽयम् ।