Stotrarnava /130
This page has been fully proofread once and needs a second look.
<ignore>श्रीशिवस्तोत्रेषु
<verse>या कृपा मुनिसंत्राणे या कृपा कपिनायके ।
या विभीषणरक्षायां सा कृपा मयि दीयताम् ॥ १३ ॥
<p>अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
'
<ref>1</ref>आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ १४ ॥
<trailer text="16_END">॥ इति श्रीमातृभूतेश्वरस्तोत्रं सम्पूर्णम् ॥
<title text="17_START">१७. ॥ अथ श्रीनमस्कारदशकस्तोत्रम् ।
<verse>नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥
<verse>नमः शिवाभ्यां जटिलालकाभ्यां
जरामृतित्राणविचक्षणाभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥
<verse>नमः शिवाभ्यां कलिना
कारुण्यकल्याणवपुर्धराभ्याम् ।
कैलासशैलाख्यनिकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥
<verse>नमः शिवाभ्यां वृषवाहनाभ्यां
विरिश्चिविश्वंभरपूजिताभ्याम् ।
विभूतिपाधीरविलौचनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥
<verse>नमः शिवाभ्यामति
अत्यन्तमासक्तवपुर्ध
अशेषलोकैकशिवङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥
<footnote>1. अधश्चोर्ध्वं च रक्षेतां रामकृष्णौ <error>र्धुनुधरा</error><fix>धनुर्धरा</fix> इति वा पाठः
</page>