Proofing

2026-04-02 21:26:43 by ambuda-bot

This page has not been fully proofread.

e
 
श्रीशिवस्तोत्रेषु
 
या कृपा मुनिसंत्राणे या कृपा कपिनायके ।
या विभीषणरक्षायां सा कृपा मयि दीयताम् ॥ १३ ॥
 
अतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
'आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ १४ ॥
 
॥ इति श्रीमातृभूतेश्वरस्तोत्रं सम्पूर्णम् ॥
 
१७. ॥ अथ श्रीनमस्कारदशकस्तोत्रम् ।
नमः शिवाभ्यां जगदीश्वराभ्यां
 
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥
 
नमः शिवाभ्यां जटिलालकाभ्यां
जरामृतित्राणविचक्षणाभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥
 
नमः शिवाभ्यां कलिना शकृद्भयां
कारुण्यकल्याणवपुर्धराभ्याम् ।
कैलासशैलाख्यनिकेतनाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥
 
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिश्चिविश्वंभरपूजिताभ्याम् ।
विभूतिपाधीरविलौचनाभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥
 
नमः शिवाभ्यामति सुन्दराभ्याम्
अत्यन्तमासक्तवपुर्धरराभ्याम् ।
 
अशेषलोकैकशिवङ्कराभ्यां
 
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥
 
1. अधश्चोर्ध्वं च रक्षेतां रामकृष्णौ धुनुधरा इति वा पाठः