Proofing

2026-04-02 21:26:43 by ambuda-bot

This page has not been fully proofread.

श्रीमातृभूतेश्वरस्तोत्रम्
 
उमावचः प्रतिप्रभाषणाज्ञमप्यधीश्वरं
 
सुवाग्मिनामपि प्रियं जितेन्द्रियोत्तमं रतौ ।
अजय्यमप्युमामुदे सुमेषुणा विनिर्जितं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ५ ॥
 
कुरङ्गलोचनाऽगजाविलासहर्षमानसं
गजास्यशौरिबालकेलिदर्शनातिविस्मितम् ।
सुनन्दिबाणभृङ्गिचण्डिरावणादिपूजित
 
नमामि मातृभूतसा म्वमूर्ति मेव सन्ततम् ॥ ६ ॥
 
सुमृत्तिका शिलादिपूधियामपीष्टदायकं ( ? )
सुपुत्रनीलकण्ठनामधेयवक्तुरिष्टदम् ।
मृगं हरेषुमाहरेति वक्तुराशु मुक्तिदं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ७ ॥
 
समस्तलोकदग्धुकामकालकूट भक्षकं
 
भिषग्वरं त्रिविष्टपस्य मातृभूतमीश्वरम् ।
मृकण्डुसूनुरक्षणाय मृत्युदर्पभञ्जकं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ८ ॥
 
अनाथगर्भिणीस्त्रियः शिशोः सुतस्य मे सदा
 
सुखप्रदं सुमातृवत् शरण्यमेव नान्यथा ।
कृपारसार्द्र मानसेशमच्युतप्रियं शिवं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ९ ॥
 
सुगन्धि कुन्तलाम्बिकासमेतमद्रिवासिनं
समीपवर्तिरङ्गनाथजम्बुकेश्वरप्रभुम् ।
अनाथगर्भिणीवधूसुखप्रसूतिकारकं
 
नमामि मातृभूत साम्बमूर्ति मेव सन्ततम् ॥ १० ॥
 
इयं समस्त कामदा नवप्रसून मालिका
नृणामशेषकर्मजन्यशोककक्षपावका ।
सुदर्शनाख्यपण्डितेन भक्तियुक्तचेतसा
 
विलिख्यते शिवप्रसादलेशला भवैभवात् ॥ ११ ॥
 
या कृपा गर्भिणीत्राणे या कृपा मुनिनन्दने ।
मातृभूतेश्वर क्षिप्रं सा कृपा मयि दीयताम् ॥ १२ ॥ ·
 
८३