Proofing

2026-04-02 21:26:42 by ambuda-bot

This page has not been fully proofread.

८२
 
श्रीशिवस्तोत्रेषु
 
जातस्य दिव्यभवने तिर्यग्योनौ मनुष्ययोनौ वा ।
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६८ ॥
षडुर्गविपिनकृन्तनसन्निशितकुठारधारया सततम् ।
 
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ६९ ॥
या परमज्ञानाङ्कुरसम्पद्धनविमलबहुलजलधारा ।
सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ ७० ॥
 
शैवजननयनमणिनिष्यन्दनचन्द्रधारा या ।
 
सा मे सदैव भूयात् त्वयि भक्तिरचञ्चला भगवन् ॥ ७१ ॥
इति रचयति स्म भगवत इन्दुकला शेखरस्य मलयाख्यः ।
भक्त्या भक्तिस्तोत्रं भवे भवे भक्तिरेवास्तु ॥ ७२ ॥
 
॥ इति श्रीमलयराजस्तुतिः सम्पूर्णा ॥
 
१६. ॥ अथ श्रीमातृभूतेश्वरस्तोत्रम् ॥
प्रसन्नवक्त्रमेकदन्तमादिपूज्यमीश्वरं
सुरासुरेन्द्रसेव्यमानपादपद्ममव्ययम् ।
समस्तशोकनाशकारणं सुखप्रदं नृणां
 
उमासुतं नमामि तं समस्तविन्नशान्तिदम् ॥ १ ॥
 
अजायमानमप्यनेकधा सुजायमानमुं ( ? )
पुराणमप्यहं युवानमादिकारणं शिवम् ।
अपाणिपादमप्यनेकपादपाणिचक्षुषं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ २ ॥
 
अनन्तरूपनामधेयमप्यनामरूपकं
 
कपालभिक्षमप्यशेषलोकसर्वकामदम् ।
 
अनाथमप्यशेषलोकनाथमीशमच्युतं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ३ ॥
 
अजीवमप्यनन्तजीवरक्षकं सुजीविनं
 
महान्तमप्यणुं हृदि स्थितं न दृश्यमीडितम् ।
बहिःस्थितं नरामरैः स्वभक्तनेतृगोचरं
 
नमामि मातृभूतसाम्बमूर्ति मेव सन्ततम् ॥ ४॥