Proofing

2026-05-09 16:56:42 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीमलय राजस्तुतिः
 
८१</ignore>
<verse>
मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् ।

यत्त सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ ५४ ॥
 
</verse>
<verse>
विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः ।

नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ ५५ ॥
</verse>
<verse>
इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य ।

नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ ५६ ॥
</verse>
<verse>
जगति तव शक्तितुला सकलजगद्भस्मरा रयात्सपदि ।

कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ ५७ ॥
</verse>
<verse>
कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति ।

शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ ५८ ॥
</verse>
<verse>
आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् ।
 

उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ ५९ ॥
</verse>
<verse>
यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् ।

एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ ६० ॥
</verse>
<verse>
स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः ।

चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ ६१ ॥
</verse>
<verse>
आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ ।

शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ ६२ ॥
</verse>
<verse>
शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् ।
 

अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ ६३ ॥
11
</verse>
<verse>
या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका ।

तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ ६४ ॥
</verse>
<verse>
त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि ।

मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ ६५ ॥
</verse>
<verse>
विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् ।

युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ ६६ ॥
</verse>
<verse>
तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् ।

विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ ६७ ॥
 
</verse>
<ignore>
6
 
८१
 
</ignore>
</page>