Stotrarnava /127
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीमलय राजस्तुतिः
८१</ignore>
<verse>मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् ।
यत्त सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ ५४ ॥
</verse>
<verse>विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः ।
नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ ५५ ॥
</verse>
<verse>इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य ।
नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ ५६ ॥
</verse>
<verse>जगति तव शक्तिरतुला सकलजगद्भस्मरा रयात्सपदि ।
कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ ५७ ॥
</verse>
<verse>कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति ।
शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ ५८ ॥
</verse>
<verse>आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् ।
उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ ५९ ॥
</verse>
<verse>यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् ।
एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ ६० ॥
</verse>
<verse>स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः ।
चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ ६१ ॥
</verse>
<verse>आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ ।
शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ ६२ ॥
</verse>
<verse>शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् ।
अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ ६३ ॥
11
</verse>
<verse>या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका ।
तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ ६४ ॥
</verse>
<verse>त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि ।
मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ ६५ ॥
</verse>
<verse>विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् ।
युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ ६६ ॥
</verse>
<verse>तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् ।
विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ ६७ ॥
</verse>
<ignore>6
८१
</ignore>
</page>