Stotrarnava /126
This page has been fully proofread once and needs a second look.
<ignore>८० श्रीशिवस्तोत्रेषु
<verse>व्यग्रः समग्रशक्ते दासजनानुग्रहः
भवतो यतो न मां प्रति संप्रति करुणायते चेतः ॥
<verse>श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा ।
सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ ४२ ॥
<verse>पापाः पाप
तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ ४३ ॥
<verse>दीनं दयार्द्रहृदयास्त्रायन्ते भवादृशा उपेत्य विभो ।
त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ ४४ ॥
<verse>नैषा कृपा कृपावन् परमेश विशेषवृत्ति<delete>ना
दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ ४५ ॥
<verse>तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः ।
लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ ४६ ॥
<verse>अद्य वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या ।
भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ ४७ ॥
<verse>धरणितलेन कलेबरमेतन्मे काष्ठवद्यावत् ।
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४८ ॥
<verse>आविशति विवशमेतच्चेतो यावन्न मोहपातालम् ।
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४९ ॥
<verse>धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि ।
एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ ५० ॥
<verse>पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ ।
जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ ५१ ॥
<verse>हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५२ ॥
<verse>दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले ।
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५३ ॥
<footnote>1. च कदाचित्
1
</page>