Proofing

2026-04-02 21:26:42 by ambuda-bot

This page has not been fully proofread.

1.
 
श्रीशिवस्तोत्रेषु
 
व्यग्रः समग्रशक्ते दासजनानुग्रहः कासौ ।
 
भवतो यतो न मां प्रति संप्रति करुणायते चेतः ॥। ४१ ॥
श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा ।
 
सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ ४२ ॥
पापाः पापन्नानां कृपणाः करुणार्द्रचेतसां सततम् ।
तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ ४३ ॥
दीनं दयार्द्रहृदयात्रायन्ते भवादृशा उपेत्य विभो ।
त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ ४४ ॥
नैषा कृपा कृपावन् परमेश विशेषवृत्तिना [ता ] येयम् ।
दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ ४५ ॥
तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः ।
लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ ४६ ॥
 
अद्य वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या ।
भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ ४७ ॥
 
धरणितलेन कलेबरमेतन्मे काष्ठवद्यावत् ।
 
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४८ ॥
 
आविशति विवशमेतच्चेतो यावन्न मोहपातालम् ।
 
तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ ४९ ॥
धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि ।
एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ ५० ॥
पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ ।
जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ ५१ ॥
हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि ' ।
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५२ ॥
दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले ।
न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ ५३ ॥
च कदाचित्
 
1