Proofing

2026-04-02 21:26:41 by ambuda-bot

This page has not been fully proofread.

श्रीमलयराजस्तुतिः
 
त्रातरि सर्वगते त्वयि शिवनामनि नाम परमकारुणिके ।
देव दिशः कथमेताः संजातास्त्राणशून्या मे ॥ २८ ॥
उभयमसम्भाव्यमिदं सुखमिह दुःखं त्वदाश्रितेऽन्यत्र ।
कः श्रद्दधाति तुहिनं दहने दाहं च शीतांशौ ॥ २९ ॥
क्रन्दन्तमेव देव त्वमपि यदीशान संश्रितं त्यजसि ।
तदशरणं शरणागतवत्सलतां हन्त निहन्त्येव ॥ ३० ॥
अभ्यर्थितः प्रसीदसि भगवन्नित्यपि ममैष कुविकल्पः ।
जगदर्थमर्थितस्त्वं कुर्वन् बहुधा तनुं केन ॥ ३१ ॥
 
सुचिरं मया न सेवितमिति शिव न त्रायसे न तद्घटते ।
किं सद्य एव पीतं नामृतमजरामरं कुरुते ॥ ३२ ॥
परितुष्टे किल भगवन् स्वात्मनि तुष्टिं ददासि लोकानाम् ।
तुष्टेऽपि त्वयि दुःखं न श्रुतपूर्व कदाचिदपि ॥ ३३ ॥
त्वयि निखिलदुःखहन्तरि हृदयगते दुःखितुं न युक्तं मे ।
उदिते भगवति भास्वति तिमिरमनष्टं व वादृष्टम् ॥ ३४ ॥
 
क्षणमपि यत्र महान्तो वसन्ति तत्रापदो विनिघ्नन्ति ।
वससि सदा मम हृदये दुःखित्वं किमिदमाचर्यम् ॥ ३५ ॥
 
मे
 
दारयति दारुणमिदं दुःखं दहतीव मे हृदयम् ।
विफलीभवति बहुफलो यद्यत्सङ्कल्पकल्पतरुः ॥ ३६ ॥
 
यस्येच्छयैव गच्छति जगदखिलं सम्भवं च नाशं च ।
तत्र त्वय्यपि शम्भो सति दुःखं हा हतोऽस्मि ततः ॥ ३७ ॥
 
तव चरणशरणगमनान्नो भग्ना नापदः सपदि यच्च ।
आत्मा तेन ममायं भगवन्निन्द्यस्त्ववन्द्यश्च ॥ ३८ ॥
 
चिन्तामणिमपि लब्ध्वा कष्टमभव्यो दरिद्र एवास्मि ।
शिवमपि शरणं गत्वा मरणभयाद्यन्न मुक्तोऽस्मि ॥ ३९ ॥
त्रिभुवनमप्युद्धर्तुं त्वद्भक्ताः शक्ततां गताः सर्वे ।
अहमिह पुनरवसन्नः पापी स्वयमेव संसारे ॥ ४० ॥
 
७९