Proofing

2026-05-08 05:47:57 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७८
 
श्रीशिवस्तोत्रेषु
 
</ignore>
<verse>
यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः ।
 

देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ १४ ॥
</verse>
<verse>
येनैकमेव सर्वं द्वैतेन त्वां महेश पश्यामि ।

सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ १५ ॥
</verse>
<verse>
भगवंस्त्रिभुवनभयकृत्कृतान्त कृष्णाहिदंष्ट्रया दष्टः ।

तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ १६ ॥
</verse>
<verse>
मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे ।

भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ १७ ॥
</verse>
<verse>
तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् ।
त्व

त्वद्
दृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ १८ ॥
</verse>
<verse>
देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य ।

शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ १९ ॥
</verse>
<verse>
शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो ।

तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ २० ॥
</verse>
<verse>
अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः ।

आक्रान्तमन्तकभटैर्मामां शिव शरणागतं रक्ष ॥ २१ ॥
 
</verse>
<verse>
शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया ।

रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ २२ ॥
</verse>
<verse>
परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् ।

यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ २३ ॥
</verse>
<verse>
सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् ।

त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ २४ ॥
</verse>
<verse>
कमपरमधुना याचे कञ्च क्रन्दामि मन्दपुण्योऽहम् ।

कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ २५ ॥
</verse>
<verse>
दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा ।

आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ २६ ॥
</verse>
<verse>
किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने ।

पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ २७ ॥
 
</verse>
</page>