Proofing

2026-04-02 21:26:41 by ambuda-bot

This page has not been fully proofread.

७८
 
श्रीशिवस्तोत्रेषु
 
यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः ।
 
देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ १४ ॥
येनैकमेव सर्व द्वैतेन त्वां महेश पश्यामि ।
सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ १५ ॥
भगवंस्त्रिभुवनभयकृत्कृतान्त कृष्णाहिदंष्ट्रया दष्टः ।
तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ १६ ॥
मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे ।
भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ १७ ॥
तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् ।
त्वदृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ १८ ॥
देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य ।
शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ १९ ॥
शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो ।
तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ २० ॥
अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः ।
आक्रान्तमन्तकभटैर्मा शिव शरणागतं रक्ष ॥ २१ ॥
 
शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया ।
रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ २२ ॥
परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् ।
यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ २३ ॥
सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् ।
त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ २४ ॥
कमपरमधुना याचे कच क्रन्दामि मन्दपुण्योऽहम् ।
कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ २५ ॥
दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा ।
आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ २६ ॥
किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने ।
पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ २७ ॥