Proofing

2026-05-09 17:04:32 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<title>१५. ॥ अथ श्रीमलयराजस्तुतिः ॥</title>
<verse>यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः ।
स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १ ॥</verse>
<verse>यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ ।
जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २ ॥</verse>
<verse>सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः ।
अत इदमर्हसि भगवन् स्थाणो कृपणाद्वचः श्रोतुम् ॥ ३ ॥</verse>
<verse>शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् ।
भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ ४ ॥</verse>
<verse>येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता ।
कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ ५ ॥</verse>
<verse>प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन ।
त्रिनयन समप्रदर्शिन् दासजनं चक्षुषा पश्य ॥ ६ ॥</verse>
<verse>पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा ।
तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ ७ ॥</verse>
<verse>कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् ।
क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ ८॥</verse>
<verse>आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् ।
त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ ९ ॥</verse>
<verse>परिलुलितकमलदलगतजललवचलमेतदायुरपयाति ।
त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ १० ॥</verse>
<verse>प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपि <error>॥</error><fix>।</fix>
मृतमपि न विमुञ्चति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ ११ ॥</verse>
<verse>गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च ।
रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ १२ ॥</verse>
<verse>भवमरुमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य ।
स्वयि <add>[त्वन्]</add>मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ १३ ॥</verse>
</page>