Proofing

2026-04-02 21:26:41 by ambuda-bot

This page has not been fully proofread.

१५. ॥ अथ श्रीमलयराजस्तुतिः ॥
 
यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः ।
स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १ ॥
यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ ।
जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २ ॥
सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः ।
अत इदमर्हसि भगवन् स्थाणो कृपणाद्वचः श्रोतुम् ॥ ३ ॥
शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् ।
भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ ४ ॥
येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता ।
कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ ५ ॥
प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन ।
त्रिनयन समप्रदर्शिन् दासजनं चक्षुषा पश्य ॥ ६ ॥
पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा ।
तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ ७ ॥
कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् ।
क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ ८॥
 
आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् ।
 
त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ ९ ॥
परिलुलितकमलदलगतजललवचलमेतदायुरपयाति ।
 
त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ १० ॥
प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपि ॥
मृतमपि न विमुवति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ ११ ॥
गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च ।
रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ १२ ॥
भवमदमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य ।
 
स्वयि [व] मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ १३ ॥