Stotrarnava /122
This page has not been fully proofread.
७६
श्रीशिवस्तोत्रेषु
वन्दे शोणगिरीश्वरं स्वरमयं वन्दे त्रिमूर्त्यात्मकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७ ॥
वन्दे कालहरं हरं वृषधरं वन्दे मृडं धूर्जटिं
वन्दे सर्वजगत्त्रयामृतनिधिं वन्दे नृसिंहापहम् ।
वन्दे विप्रसुरासुरार्चितपदं वन्दे भगाक्षापहं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८ ॥
वन्दे सूक्ष्ममनन्तमाद्यमनघं वन्देऽन्धकारापहं
वन्दे रावणबाणभृङ्गिविनुतं वन्दे सुपर्णावृतम् ।
वन्दे शैलसुतार्धभागवपुषं वन्दे त्रियम्बात्मकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ९ ॥
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणं
वन्दे भूतगणेशमव्ययमजं वन्देऽर्थराजप्रियम् ।
वन्दे सुन्दर सौरभेन्द्रगमनं वन्दे त्रिशूलायुधं
यन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १० ॥
वन्दे मन्दकटाक्षलब्ध[दत्त ] विभवं वन्दे विरिञ्चस्तुतं
वन्देन्द्रा[ऽब्जा ]च्युतपूजिताङ्घ्रिकमलं वन्दे वृषेन्द्रध्वजम् ।
वन्दे हाटकरत्नभूषणधरं वन्दे भवानीप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ११ ॥
वन्दे पावनमम्बरात्मममलं वन्दे महादैवतं
वन्दे भक्तवराश्रयामरतरं वन्दे नताभीष्टदम् ।
वन्देऽपीतकुचाम्बिकेशमनिशं वन्देऽरुणाधीश्वरं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १२ ॥
शान्तं जम्भवरापहं शुभकरं धर्मार्थकामप्रदं
धन्यं श्रेयः [ पुण्य ] फलप्रदं शुचिकरं दारिद्र्यदुःखापहम् ।
भूतप्रेतपिशाचराक्षसहरं पा[पन्न ] मायुष्करं
नित्यं शोणगिरेः स्तवं पठति यो मोक्षं लभेच्छाश्वतम् ॥ १३ ॥
॥ इति श्री अरुणाचलस्तोत्रं सम्पूर्णम् ॥
1.
र्थराजो सखम्