Stotrarnava /121
This page has not been fully proofread.
१४.
॥ अथ श्री अरुणाचलस्तोत्रम् ॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्रिनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥
वन्दे सर्वजगद्विहारमतुलं वन्दे करित्वग्धरं
वन्दे देवशिखामणि शशिनिभं वन्दे हरेर्वल्लभम् ।
वन्दे नागभुजङ्गभूवणधरं वन्दे शिवं चिन्मयं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २ ॥
वन्दे सोममचिन्त्यमद्वयमजं वन्देऽर्कदर्पापहं
वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।
वन्दे नित्यम शिवायमभयं वन्देऽतिशान्ताकृतिं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३ ॥
वन्दे भूरथमम्बुजा विशिखं वन्दे त्रयीघोटकं
वन्दे शौलशरासनं फणिगुणं वन्देऽब्धितूणीरकम् ।
वन्दे पद्मजसारथिं पुरहरं वन्दे महावैभवं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ४ ॥
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं
वन्दे व्योमकचं जटासुमकुटं वन्देन्दु [Sब्ज ] गङ्गाधरम् ।
वन्दे नागभरं त्रिपुण्डनिटिलं वन्देऽष्टमूर्त्यात्मकं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥
वन्दे तारकपर्वताग्रनिलयं वन्दे सुराधीश्वरं
वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६ ॥
वन्देऽनन्तशशिप्रकाशमतुलं वन्देऽर्कतेजोमयं
वन्दे पद्मजविष्णुगर्व कुलिशं वन्दे परब्रह्म ओम् ।