Proofing

2026-04-05 22:49:48 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७२
 
श्रीशिवस्तोत्रेषु
 
</ignore>
<verse>
ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताः

शम्भुः खद्ट्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः ।

विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा-

दस्मिन् विश्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ ६ ॥
</verse>
<verse>
यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा <add>(?)
</add>
पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् ।

तं वन्दे साधु वन्द्यं सकलगुणनिधिं ध्वस्तदोषं द्विपन्तो

बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ७ ॥
</verse>
<verse>
ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात्

नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च ।

आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं

संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ८ ॥
</verse>
<verse>
नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलं
 

नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धाध्या मया ।

राज्ञः श्री हिमशीतलस्य सदसि प्रायो विदग्धात्मनो
 

बौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ ९ ॥
</verse>
<trailer text="11_END">
॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥
 
</trailer>
<title text="12_START">
१२. ॥ अथ श्रीशिवपञ्चचामरस्तोत्रम् ॥
</title>
<verse>
सुवर्णपद्मिनीतटान्त दिव्यहर्म्यवासिने

सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।
 

अपर्णया विहारिणे फणाधरेन्द्रधारिणे
 

सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ १ ॥
 
</verse>
<verse>
सुतुङ्गभङ्गजहुह्नुजासुधांशुखण्डमौलये
 

पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुपेषे
 

भुजङ्गराजकुण्डलाय पुण्यका लिबन्धवे
 

सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ २ ॥
 
</verse>
<verse merge-next="true">
चतुर्मुखाननारविन्दवेदगीतभूतये
 

चतुर्भुजानुजाशरीरशोभमानमूर्तये ।
 
</verse>
</page>