Proofing

2026-04-02 21:26:40 by ambuda-bot

This page has not been fully proofread.

७२
 
श्रीशिवस्तोत्रेषु
 
ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताः
शम्भुः खद्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः ।
विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा-
दस्मिन् विश्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ ६ ॥
यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा (?)
पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् ।
तं वन्दे साधु वन्द्यं सकलगुणनिधिं ध्वस्तदोषं द्विपन्तो
बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ७ ॥
ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात्
नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च ।
आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं
संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ८ ॥
नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलं
 
नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धा मया ।
राज्ञः श्री हिमशीतलस्य सदसि प्रायो विदग्धात्मनो
 
बौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ ९ ॥
॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥
 
१२. ॥ अथ श्रीशिवपञ्चचामरस्तोत्रम् ॥
सुवर्णपद्मिनीतटान्त दिव्यहर्म्यवासिने
सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।
 
अपर्णया विहारिणे फणाधरेन्द्रधारिणे
 
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ १ ॥
 
सुतुङ्गभङ्गजहुजासुधांशुखण्डमौलये
 
पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुपे ।
 
भुजङ्गराजकुण्डलाय पुण्यका लिबन्धवे
 
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ २ ॥
 
चतुर्मुखाननारविन्दवेदगीतभूतये
 
चतुर्भुजानुजाशरीरशोभमानमूर्तये ।