Proofing

2026-04-05 22:46:04 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीशिवस्तुतिः
 
</ignore>
<verse>
उन्मीलत्कम्पसम्पच्चलदचलमिथः स्पष्टसंघट्टरुग्ण-
 

ग्राव्णां निर्घोषदैर्घ्यैः पटुपटहरवाडम्बरोऽपि व्यडम्बि ।

उद्वेलोद्वेल्लब्धेः समसमयवलल्लोलकल्लोलतालै-

रुत्तालातालील।लाभयसमुपनमद्ब्रह्मकाकुश्च गीतिः ॥ १०२ ॥
</verse>
<trailer text="10_END">
॥ इति श्रीशिवशतकं सम्पूर्णम् ॥
 
</trailer>
<title text="11_START">
११. ॥ अथ श्रीशिवस्तुतिः ' ॥
 
<ref>1</ref> ॥</title>
<verse>
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं

साक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले ।

रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयो
 

नालं यत्पदलङ्नाय स महादेवो मया वन्द्यते ॥ १ ॥
 
</verse>
<verse>
दग्धं येन पुरत्रयं शरभुवा तीत्व्रार्चिषा वह्निना
 

योऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः ।
 

सोऽयं किं मम शङ्करो भयतृषारोषा र्तिमोहक्षयं
 

कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमंकरः शंकरः ॥ २ ॥
 
<add>?</add></verse>
<verse>
यत्नाद्येन विदारितं कर रु है र्दैत्येन्द्रवक्षस्स्थलं
 

सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् ।

नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं
 

विश्व व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ ३ ॥
 
</verse>
<verse>
यो जग्ध्वा पिशितं समत्स्यकबलं जीव<error>न्ती</error><fix>न्ति</fix> शून्यं पदं <add>(?)
</add>
कर्ता कर्मफलं न भुंक्त इति यो वक्ता स बुद्धः कथम् ।

यज्ज्ञानं क्षणव<error>र्तिं</error><fix>र्ति</fix> वस्तु सकलं ज्ञातुं न शक्तं सदा

यो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ४ ॥
</verse>
<verse>
पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनः
 

पात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् ।

आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशं

क्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ५ ॥
 
</verse>
<footnote>
1. इयं स्तुतिः शिव विष्णुब्रह्मबुद्धपरा, अनन्वितपदार्था च भवति ।
 
</footnote>
</page>