Proofing

2026-04-02 21:26:40 by ambuda-bot

This page has not been fully proofread.

श्रीशिवस्तुतिः
 
उन्मीलत्कम्पसम्पच्चलदचलमिथः स्पष्टसंघट्टरुग्ण-
 
ग्राव्णां निर्घोषदैयैः पटुपटहरवाडम्बरोऽपि व्यडम्बि ।
उद्बलोद्वेल्लब्धेः समसमयवलल्लोलकल्लोलतालै-
रुत्तालाताळलील।भयसमुपनमद्ब्रह्मकाच गीतिः ॥ १०२ ॥
॥ इति श्रीशिवशतकं सम्पूर्णम् ॥
 
११. ॥ अथ श्रीशिवस्तुतिः ' ॥
 
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं
साक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले ।
रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयो
 
नालं यत्पदलङ्कनाय स महादेवो मया वन्द्यते ॥ १ ॥
 
दग्धं येन पुरत्रयं शरभुवा तीत्रार्चिषा वह्निना
 
योऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः ।
 
सोऽयं किं मम शङ्करो भयतृषारोषा र्तिमोहक्षयं
 
कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमंकरः शंकरः ॥ २ ॥ १
 
यत्नाद्येन विदारितं कर रु है दैत्येन्द्रवक्षस्थलं
 
सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् ।
नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं
 
विश्व व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ ३ ॥
 
यो जग्ध्वा पिशितं समत्स्यकबलं जीवन्ती शून्यं पदं (?)
कर्ता कर्मफलं न भुंक्त इति यो वक्ता स बुद्धः कथम् ।
यज्ज्ञानं क्षणवर्तिं वस्तु सकलं ज्ञातुं न शक्तं सदा
यो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ४ ॥
पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनः
 
पात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् ।
आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशं
क्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ५ ॥
 
1. इयं स्तुतिः शिव विष्णुब्रह्मबुद्धपरा, अनन्वितपदार्था च भवति ।