This page has been fully proofread once and needs a second look.

* सर्व<bold>प्रयः -</bold> त्रैलोक्षणसङ्ग्रह: *
 
[प्रसि] ८९
 
यनाशः१ सकलभावकार्यविनाश इति मंग्रं० २भूता-

दिलयाधारकालः ३स नित्यनैमित्तिकदैनन्दिनमहात्यन्तिकरूपः

<bold>
प्रलापः-</bold> व्यर्थालाभः १ निष्प्रयोजनानर्थकवाक्यम् ॥ १९९८ ॥

<bold>
प्रवचनं -</bold> प्रकृष्व्वाक्यम् १ अर्थानुसंधानपूर्वककथनं वा ॥ २०००॥

<bold>
प्रवर्तकं -</bold> इष्टसाधनताविषयकं कृतिसाध्यताज्ञानम् १ स्वविशे-

षणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानमिति गुरवः २ अन्या-

प्रेरितत्वे सति तादृशलिङुञ्चारयितृत्वं प्रवर्तकत्वम् ॥ २००४॥

<bold>
प्रवर्तना-</bold> प्रवृत्त्यनुकूलो व्यापारः <error>॥ २००५।
</error><fix>॥२००५॥</fix>
<bold>
प्रवृत्तिः -</bold> शब्दानामर्थबोधनशक्तिः * १ स्वस्वविषये इन्द्रि-

यादीनां सञ्चारः २ रागजन्या रागविषयको गुणः ॥ २००८ ॥

<bold>
प्रशंसा-</bold> गुणाविष्क ( रणम् १ ) रिण स्तुतिः ॥ २०१० ॥

<bold>
प्रश्नः-</bold> जिज्ञासाविष्करणम् १ अविज्ञातार्थज्ञानार्थमिच्छा प्रयोज्य-

वाक्यमिति ग्रं० २ प्रतिवचनानन्तरमाक्षेपोत्थानम् ॥२०१३॥

<bold>
प्रश्वासः -</bold> कोष्ठ्यवायोर्बहिर्निःसारणम् ॥ २०१४ ॥ ३४६

<bold>
प्रसङ्ख्यान -नं -</bold> सत्यज्ञानम् १ शब्दयुक्तिप्रत्ययानामावृत्तिः ।
 
-
 

<bold>
प्रसङ्गः-</bold> प्रकृष्टसङ्गः १ लक्ष्ये लक्षणसंबन्धः * २ अन्योद्देशे-

ऽन्यसिद्धिः ३ निरूपणयोग्यत्वम् ॥ २०२० ॥

<bold>
प्रसङ्गसङ्गतिः-</bold> स्मृतस्योपेक्षानर्हत्वम् १ उपोद्धातादिभिन्नत्वे

सत्यनन्तराभिधानप्रयोजक जिज्ञासाजनक ज्ञान विषयत्वम् २०२२
<error>२०२२</error><fix>॥२०२२॥</fix>
<bold>
प्रसिद्धत्वं-</bold> विख्यातत्वम् १ अनेकज्ञान विषयत्वं वा ॥२०२४ ॥
 
प्रलयः - त्रैलोक्यनाशः
 
-
 

 
 
 
-