This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रह: *
 
[प्रसि] ८९
 
१ सकलभावकार्यविनाश इति मं० २भूता-
दिलयाधारकालः ३स नित्यनैमित्तिकदैनन्दिनमहात्यन्तिकरूपः
प्रलापः- व्यर्थालाभः १ निष्प्रयोजनानर्थकवाक्यम् ॥ १९९८ ॥
प्रवचनं - प्रकृटवाक्यम् १ अर्थानुसंधानपूर्वककथनं वा ॥ २०००॥
प्रवर्तकं - इष्टसाधनताविषयकं कृतिसाध्यतज्ञानम् १ स्वविशे-
षणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानमिति गुरवः २ अन्या-
प्रेरितत्वे सति तादृशलिङञ्चारयितृत्वं प्रवर्तकत्वम् ॥ २००४॥
प्रवर्तना- प्रवृत्त्यनुकूलो व्यापारः ॥ २००५।
प्रवृत्तिः - शब्दानामर्थबोधनशक्तिः * १ स्वस्वविषये इन्द्रि-
यादीनां सञ्चारः २ रागजन्या रागविषयको गुणः ॥ २००८ ॥
प्रशंसा-गुणाविष्क ( रणम् १ ) रिण स्तुतिः ॥ २०१० ॥
प्रश्नः- जिज्ञासाविष्करणम् १ अविज्ञातार्थज्ञानार्थमिच्छा प्रयोज्य-
वाक्यमिति ग्रं० २ प्रतिवचनानन्तरमाक्षेपोत्थानम् ॥२०१३॥
प्रश्वासः - कोष्ठ्यवायोर्बहिर्निःसारणम् ॥ २०१४ ॥ ३४६
प्रसङ्ख्यान - सत्यज्ञानम् १ शब्दयुक्तिप्रत्ययानामावृत्तिः ।
 
-
 
प्रसङ्गः- प्रकृटसङ्गः १ लक्ष्ये लक्षणसंबन्धः * २ अन्योद्देशे-
ऽन्यसिद्धिः ३ निरूपणयोग्यत्वम् ॥ २०२० ॥
प्रसङ्गसङ्गतिः-स्मृतस्योपेक्षानर्हत्वम् १ उपोद्धातादिभिन्नत्वे
सत्यनन्तराभिधानप्रयोजक जिज्ञासाजनक ज्ञान विषयत्वम् २०२२
प्रसिद्धत्वं विख्यातत्वम् १ अनेकज्ञान विषयत्वं वा ॥२०२४ ॥
 
प्रलयः - त्रैलोक्यनाशः
 
-