This page has been fully proofread once and needs a second look.

८८ [प्रयो]
 
* सवलक्षणसङ्ग्रहः
 
*
 
<bold>प्रमादः -</bold> कर्तव्येऽकर्तव्यत्वधिया ततो निवृत्तिः १ अकर्तव्ये

कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा २ प्रयत्नेन कर्तव्ये कार्ये विस्मृतिः

<bold>
प्रमेयत्वम्-</bold> अवधार्यम् * १ प्रमाविषयत्वम् ॥ १९७७ ॥

<bold>
प्रमेयगतविपरीतभावना-</bold> योग्यं योग्येन संबद्ध्यते इति

न्यायात्रिगुणात्मकप्रपञ्चोपादानं त्रिगुणात्मिका मायैव न
 
>
 

ब्रह्मेति निश्चयात्मिका चित्तवृत्तिः ॥ १९७८ ॥ २

<bold>
प्रमेयगतासंभावना -</bold> प्रमेयगोचरसंभावनाविरहः १ ब्रह्मण-

स्सच्चिदानन्दरूपिणोऽनृतजडदुःखात्मकप्रपञ्चविलक्षणत्वेन त-

त्कारणत्वं कथं भवेत् ? न भवेदेवेत्याकारिका चित्तवृत्तिः <error>१९८०
</error><fix>॥१९८०॥</fix>
<bold>
प्रमेयचैतन्यं-)</bold> विषयप्रकाशकं विषयाधिष्ठानभूतं चैतन्यम् १

<bold>
विषयचैतन्यं-)</bold> अज्ञातं घटाद्यवच्छिन्नं चैतन्यमिति ग्रं० ।

<bold>
प्रयत्नः-</bold> करोमीत्यनुभव विषयवृत्तिगुणत्वव्याप्यजातिमान् <error>१९८२
</error><fix>॥१९८२॥</fix>
<bold>
प्रयोगः -</bold> शब्दादीनामुच्चारगम्*१ शस्त्रादिमोचनम् ॥ १९८४॥

<bold>
प्रयोगविधिः-</bold> सानेङ्गे कर्मण्यनुष्ठापको विधिः १ प्रयोगा <error> </error>शुभा

वबोधको विधिः ।
[भृत्यादीन्प्रयुनक्ति
 

<bold>
प्रयोजकः-</bold> अनुष्ठापकः १ साक्षात्परम्परया वा कारणम् २कार्यादौ-

<bold>
प्रयोजनं-</bold> यमर्थमधिकृत्य प्रवर्तते १ प्रवृत्तिहेत्विच्छाविषयः । ज्ञा-

नसुखत्वादिवारणार्थं प्रवृत्तिहेत्विति २ बुद्धिविषयत्वे सति

स्वसंबन्धित येच्छा विषयत्वं प्रयोजनत्वम् ॥ १९९३ ॥

<bold>
प्रयोज्यं -</bold> प्रयोक्तुं शक्यम् *१ साक्षात्परम्परया वा जन्यम् ।