This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः * [प्रमा] ८७
क्षुषादिप्रमित्यसाधारणकारणे विषयेन्द्रिय संबन्धादौ व्यापारेऽ

तिव्याप्तिवारणाय व्यापारवत्तासम्बन्धेनेति, अन्यप्रमाण-

स्यान्यप्रमाणत्वापत्तिवारणाय विभाजकोपाध्यवच्छिन्न-

ति, चाक्षुषादावपि व्यापारवत्तासंबन्धेन मनसः कारणत्वात्त-

त्रातिव्याप्तिवारणायासाधारणेति ४ असंदिग्धाविपरीतान-

धिगतविषयकबोधरूपप्रमाकरणम् । संशयविपर्यय स्मृतिकरणे-

ध्वतिप्रसङ्गवारणायोपात्तं बोधरूपमांशे क्रमशो विशेषणत्रय-

मिति योगिनः ५ अगृहीतग्राहिज्ञानकरणमिति मी० ६ अ-

ज्ञातार्थज्ञापकम् ७ दोषासहकृतज्ञानकरणमित्यद्वैतसिद्धौ

संवादिप्रवृत्तिजननयोग्यज्ञानजनकमिति ब्रह्मविद्याभरणे ९

साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वं प्रमाणत्वम् <error>१९६४
</error><fix>॥१९६४॥</fix>
<bold>
प्रमाणगतविपरीतभावना-</bold> श्रुतीनामहेयानुपादेयब्रह्मप्रति-

पादकत्वे निष्फलत्वप्रसङ्गाच्छ्रुतयः कर्मपरा एवेति निश्चया-

त्मिका चित्तवृत्तिः ॥ १९६५ ॥
 

 

<bold>
प्रमाणगतासंभावना-</bold> प्रमाणगोचरसंभावनाविरहः १ ब्रह्मणो

घटादिवत्सिद्धत्वेन मानान्तरगम्यत्वाच्छ्रुतिस्तत्प्रतिपादिका कथं

भवेत् ? फलाभावान्न भवेदेवेत्याकारिका चित्तवृत्तिः ॥१९६७ ॥

<bold>
प्रमाणचैतन्यं -</bold> अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् ॥ १९६८ ॥

<bold>
प्रमाता -</bold> प्रमाश्रयः १ प्रमाणैर्योऽयंर्थ प्रमिणोति सः ॥१९७० ॥

<bold>
प्रमातृचैतन्यं-</bold> अन्तःकरणा(विच्छिन्न चैतन्यम् १)विशिष्टचैतन्यं
 
-
 
-
 
-
 
-