This page has been fully proofread once and needs a second look.

८६ [प्रमा]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>प्रत्युत्तरं -
 
</bold> प्रतिपक्ष्युच्चरितनिराकरणसमर्थवाक्यम् ॥ १९३६॥

<bold>
प्रथमत्वं -</bold> पूर्वज्ञान विषयत्वम् * १ स्वापेक्षापूर्वरहितत्वम् <error>१९३८
</error><fix>॥१९३८॥</fix>
<bold>
प्रथमाविभक्तित्वं-</bold> सङ्केत विशेषसम्बन्धेन प्रथमापदवत्त्वम् ।

<bold>
प्रदक्षिण-</bold> दक्षिणावर्तेन देवमुद्दिश्य भ्रमणम् ॥ १९४० ॥

<bold>
प्रधानं-</bold> सत्त्वरजस्तमोगुणसाम्यावस्था १ 'प्रकृति' लक्षणमप्य त्र०

<bold>
प्रध्वंसाभावः -</bold> जन्यत्वे सत्यविनाश्यभावः १ अविनाशित्वे सति

प्रतियोगिस (त्तोत्तरकालिकाभावः २) मवायिमात्रवृत्त्यभावः । साम-

यिकाभावादिवारणाय सत्यन्तम्, अन्योन्याभाववारणाय मात्रेति

<bold>
प्रपञ्चः -</bold> चिद्भिन्नत्वम्) परिच्छिन्नत्वं प्रपञ्चसामान्यं लक्षणम् २वैप-

<bold>
प्रबन्धत्वं-</bold> सङ्घटितनानावाक्यसमुदायत्वम् ।
 
[रीत्यं
 
२.
 
प्रमा-

<bold>प्रमा-</bold>
अविसंवादिज्ञानमिति बौद्धाः १ अव्यभिचार्यनुभव इति

भाट्टाः २ प्रमाणजन्यं ज्ञानमिति नै० ३ अनधिगततत्त्वबोधः

पौरुषेयो व्यवहारहेतुरिति सां० ४ बोधे[^१]द्धा वृत्ति[^२]वृत्तीद्धबोधो

वा ५ स्मृतिभिन्नत्वे सत्यबाधितार्थगोचरज्ञानम् ॥ १९५४ ॥

<bold>
प्रमाणं-</bold> प्रमीयतेनेनेति १ सम्यग्ज्ञानमिति जैना: २ प्रमाकरणम् ।

छिदादिकरणकुठारादावतिव्याप्तिवारणाय मा पदम्, भ्रमज्ञान-

करणदुष्टचक्षुरादावतिव्याप्तिवारणाय प्र पदम्, प्रमाप्रमाण-

मित्युक्तेऽसंभवः स्यादतः करणमित्युक्तम् ३ व्यापारवत्तासं-

बन्धेन प्रमितिविभाजकोपाध्यवच्छिन्नासाधारणकारणम् । चा-

[^
१ बोधेनेद्धा प्रकाशिता वृत्तिः । २ वृत्तौ प्रतिबिम्बितं चैतन्यम् ।
 
]