This page has not been fully proofread.

विलक्षणहः *
 
प्रतिकूलत्वम् ।
 
<bold>प्रतिकूलं -</bold> द्वेषविषयः १ विरुद्धपक्षावलम्बित्वं
प्रतिकूलत्वम् ।
<bold>
प्रतिग्रह:-</bold> अदृष्टार्थ (दत्ताङ्गीकारः १) त्यक्तद्रव्यस्वीकारः <error>१८७९
</error><fix>॥१८७९॥</fix>
<bold>
प्रतिज्ञा-</bold> कर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः १ उत्तरकाले स्वक-

र्तव्यत्वेन निर्देश:, यथा 'इदं करिष्यामि' इत्याकारकवाक्यम् २

साध्यविशिटपक्षबोधजनकवचनम्, यथा पर्वतो वह्निमानिति ।

<bold>
प्रतिज्ञाहानिः-</bold> स्वकृतोक्तपरित्यागः १ प्रतिज्ञातार्थपरित्यागः
प्रतितन्त्र

<bold>प्रतितन्त्र
सिद्धान्तः-</bold> समानतन्त्र सिद्धः परतन्त्रासिद्धः १ वादि-

प्रतिवाद्ये कतर मात्राभ्युपगतः सिद्धान्त इति ग्रं० ॥ १८८६ ॥

<bold>
प्रतिपादनं-</bold> प्रतिपाद्यं मुखतः प्रतिज्ञाय पश्चात्तत्सिद्धि हेतुप्रदर्श-

नम् । उपोद्धातवारणाय मुखत इति, असंबद्ध हेतुव्यावृत्यर्थ

तत्सिद्धीति १ प्रतिपत्त्यनुकूलशब्दप्रयोगः ॥ १८८८ ॥

<bold>
प्रतिप्रसवः -</bold> प्रतिषि (द्धस्य प्रतिषेधे पु०) द्धैकदेशस्य पुनर्विधानं

<bold>
प्रतिबन्ध्युत्तरं-</bold> अनिष्टान्तर प्रसञ्जकमुत्तरम् १ नोद्य परिहारसाम्य

मिति ग्रं० २प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरापादनं

<bold>
प्रतिबन्धः- )</bold> कार्यानुकूलकिञ्चिद्धर्मविघटकः, यथामौ दाह-

<bold>
प्रतिबन्धकः- )</bold> रूपकार्यानुकूलस्य कस्यचिद्धर्मस्य शक्तयाख्य-

स्य विघटको मणिमन्त्रौषधादि: १ सामग्री कालीन कार्यानुत्पाद-

प्रयोजकः २ पुष्कलकारणे सति कार्योत्पादविरोधी । सामग्र्य-

भावं व्यावर्तयितुं पुष्कलेति ३ कारणीभूताभावप्रतियोगी ।

१ यदि पुरुषत्वादयं चौरस्तदा एवं त्वमभि चौरः स्या इत्यापादनम्।
 
-
 
[प्रात ] ८२
 
-