This page has been fully proofread once and needs a second look.

८२ [प्रणा]
 
* सर्वलक्षणसङ्ग्रहः #
 
०२
 
<bold>पौरुषेयत्वं-</bold>नूतनानुपूर्वी रचनत्वम् १ प्रमाणान्तरेणार्थमुग्लभ्य

विनिर्मितत्वमिति पंग्रं० २ पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधोधीनानु-

पूर्वीमत्त्वम् *३ सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् <error>१८५०
</error><fix>॥१८५०॥</fix>
<bold>
प्रकरणं-</bold> उभयाकाङ्क्षा १ <fix></fix>ङ्गवाक्यसापेक्षं प्रधानवाक्यमिति

मी० २ सङ्गतिप्रदर्शन प्रयोजिकाकाङ्क्षा *३ एकार्थप्रतिपादक -
ग्र -
न्यांथांशः ४ शास्त्रसिद्धान्तप्रतिपादको ग्रन्थः ५ शास्त्रैकदेशसं-

बद्धं शास्त्रकार्यान्तरे स्थितमिति ग्रं० ॥ १८५६ ॥

<bold>
प्रकारत्वं-</bold> सामान्यभेदकत्वम् १ भासमानवैशिष्ट्यप्रतियोगित्वं

<bold>
प्रकाशनत्वम्-</bold> स्वाभिप्रायाविष्करणम् ॥ १८५९ ॥

<bold>
प्रकाशमानत्वं-</bold> स्वसत्तायां स्वसत्ता प्रकारक. प्रकारकसंशया द्यगोचरत्वम्

<bold>
प्रकृतत्वं-</bold> प्रकरण प्राप्तत्वम् १ प्रतिज्ञाविषयत्वमिति ग्रं०<error> १८६२
</error><fix>॥१८६२॥</fix>
<bold>
प्रकृतिः -</bold> प्राचीनकर्मसंस्काराधीनस्वभावः * १ सत्त्वरजस्तमो

गुणानां साम्यावस्था २ सम्पूर्णाङ्गसंयुक्तो विधिः ३ प्राथमि-

कविधिप्रतिपादितसमप्ग्रेतिकर्तव्यताकत्वमिति मी० ४ अज-

न्यत्वे सति जनकत्वं प्रकृतित्वम् ५ तत्त्वान्तरारम्भकत्वमिति

सां० ६ अर्थावबोध हेतु प्रत्यय प्रत्ययविधानावधिभूतशब्दत्वम् ७ प्रत्य-

यनिष्टविधेयतानिरूपितोद्देश्यताश्रयत्वमिति वै० ॥ १८७० ॥

<bold>
प्रकृतिभावः -</bold> संधिकार्यरहितत्वम् १ निर्विकारस्वरूपेणावस्थानं

<bold>
प्रगल्भत्वं-</bold> प्रवीणमतित्वम् १ कार्याकार्यावधारणक्षमत्वं वा ।

<bold>
प्रणाम: -</bold> स्वापकर्षबोधककर शिरः संयोगादिव्यापारः॥ १८७५॥
 
-
 
-
 
-
 
-