This page has been fully proofread once and needs a second look.

<bold>*सम्मतयः
 
*</bold>
काशीस्थप्रधान प्रधानैकोनपञ्चाशत् (४९) पण्डितानामभिप्रायाः-

<bold>
ये सन्ति विषयाश्वास्मिस्ते न दृष्टाः परत्र वै,

अत्रैव च समाविष्टं सर्वसिद्धान्तलक्षणम् ।
</bold>
जगन्नाथपुरीस्थसंस्कृत कालेजाद्रामचन्द्र मिश्रः सूचयति — ग्रन्थेऽस्मि-

न्
नधीते सर्वविषयाणां परिभाषा ज्ञायेत, बहुग्रन्थावलोकनेन यादृशं

ज्ञानं सम्पद्येत तादृशञ्च खल्वेकमिदमवलोक्यापि सञ्जायेत, अतोऽयं

ग्रन्थः सर्वथा व्युत्पित्सुनामन्तेवासिनामुपयोगी भवेदिति ।

मैसूरस्थराजकीयपाठशालायाः केशवशास्त्रिणोऽपि बोधयन्ति -
तन्त्र

तन्त्र
ग्रन्थव्याख्यातृभिर्निरुक्तानिलक्षणानि तत्तत्प्रकरणानुरोधेनैव

न तत्त्वतः, तत्वतः निरुक्तान्यपि नैकत्र सर्वाणि ।

<bold>
काञ्चीतः --</bold> मञ्ज् भाषिणी ज्ञापयति — अयं ग्रन्थः कोशरूपस्सैद्धान्ति-

कानां पदानां भिक्षुकेण सङ्गृहीतः, अत्र चाकारादिक्रमेण तान्त्रि-

काणां बहूनां शब्दानां सङ्ग्रहस्तेषां व्याख्या च कृता वर्तते ।

<bold>
बड़ोदा-</bold> नारायणशालायाः अमृतलालः सङ्केतयति
गूढार्थकशब्दा-

नां प्रवृत्तिनिमित्तार्था: पदार्थस्वरूप निर्धारणोपयोगीनि इतर व्यावृ

त्तिबोधजनकानि च लक्षणान्यत्र सम्यगुपनिबद्धानि ।

OXFORD University Library - एवमन्यान्यनगरवासि-

भिर्बहुभिः सुधीभिरस्य सङ्ग्रहस्य प्रामाणिकत्वमङ्गीकृतम् । तथाहि -

<bold>
सर्वलक्षणसङ्ग्रहः -</bold> सङ्ग्राहको भिक्षुगौरीशङ्करः । प्ग्रन्थेऽस्मिन्वे-

दवेदाङ्गदर्शनस्मृतिपुराणकाव्यसाम्प्रदायिकविविधशास्त्रप्रतिपादित -

पदार्थानां षट्सप्तत्युत्तरचतुःशताधिकत्रिसहस्र <bold>३४७६</bold> लक्षणानि

सन्ति, एवंविधः सर्वविषयोपकारकः सुखप्रवेशसाधनभूतश्च लाक्ष-

णिकनिबन्धोऽद्या वधि केनापि न विहितः ।
 

 
<bold>
सङ्केतस्त्वित्थम् -</bold> मनोभरीदेवी, पुठ्ठी - प्रामः,
 

 
पत्रालय बवानीखेड, प्रदेशो हिसारः (पञ्जाब )
 
1