This page has not been fully proofread.

सम्मतयः
 
काशीस्थप्रधान प्रधानैकोनपञ्चाशत् (४९) पण्डितानामभिप्रायाः-
ये सन्ति विषयाश्वास्मिस्ते न दृष्टाः परत्र वै,
अत्रैव च समाविष्टं सर्वसिद्धान्तलक्षणम् ।
जगन्नाथपुरीस्थसंस्कृत कालेजाद्रामचन्द्र मिश्रः सूचयति — ग्रन्थेऽस्मि-
नधीते सर्वविषयाणां परिभाषा ज्ञायेत, बहुग्रन्थावलोकनेन यादृशं
ज्ञानं सम्पद्येत तादृशञ्च खल्वेकमिदमवलोक्यापि सञ्जायेत, अतोऽयं
ग्रन्थः सर्वथा व्युत्पित्सुनामन्तेवासिनामुपयोगी भवेदिति ।
मैसूरस्थराजकीयपाठशालायाः केशवशास्त्रिणोऽपि बोधयन्ति -
तन्त्र ग्रन्थव्याख्यातृभिर्निरुक्तानिलक्षणानि तत्तत्प्रकरणानुरोधेनैव
न तत्त्वतः, तत्वतः निरुक्तान्यपि नैकत्र सर्वाणि ।
काञ्चीतः - मञ्जभाषिणी ज्ञापयति — अयं मन्थः कोशरूपस्सैद्धान्ति-
कानां पदानां भिक्षुकेण सङ्गृहीतः, अत्र चाकारादिक्रमेण तात्रि-
काणां बहूनां शब्दानां सङ्ग्रहस्तेषां व्याख्या च कृता वर्तते ।
बड़ोदा-नारायणशालायाः अमृतलालः सङ्केतयति
— गूढार्थकशब्दा-
नां प्रवृत्तिनिमित्तार्था: पदार्थस्वरूप निर्धारणोपयोगीनि इतर व्यावृ
त्तिबोधजनकानि च लक्षणान्यत्र सम्यगुपनिबद्धानि ।
OXFORD University Library - एवमन्यान्यनगरवासि-
भिर्बहुभिः सुधीभिरस्य सङ्ग्रहस्य प्रामाणिकत्वमङ्गीकृतम् । तथाहि -
सर्वलक्षणसङ्ग्रहः - सङ्ग्राहको भिक्षुगौरीशङ्करः । प्रन्थेऽस्मिन्वे-
दवेदाङ्गदर्शनस्मृतिपुराणकाव्यसाम्प्रदायिकविविधशास्त्रप्रतिपादित -
पदार्थानां षट्सप्तत्युत्तरचतुःशताधिकत्रिसहस्र ३४७६ लक्षणानि
सन्ति, एवंविधः सर्वविषयोपकारकः सुखप्रवेशसाधनभूतश्च लाक्ष-
णिकनिबन्धोऽद्या वधि केनापि न विहितः ।
 
सङ्केतस्त्वित्थम् - मनोभरीदेवी, पुठ्ठी - प्रामः,
 
पत्रालय बवानीखेड, प्रदेशो हिसारः (पञ्जाब )
 
1