This page has been fully proofread once and needs a second look.

<bold>पत्रं-</bold> लेखनाचाधारः १ पात्यते स्थानात्स्थानान्तरं
समाचारोऽनेन।
<bold>
पदं-</bold> विभक्तयन्तशब्दः *१ वर्णसमूहः २ अर्थवद्वर्णो वा ३
वाक्यैकदेशः ४ प्रत्येकं संभूय वा वाक्यांशबोधको वर्णः * ५
शौशा[^१]ब्दप्रतीत्यजन्यशाब्दप्रतीतिजनकं वर्णात्मकम् । शाब्दप्र-
तीतिजन्यशाब्दप्रतीतिजनकं वाक्यं प्रथम विशेषणेन व्याव-
येर्त्यते, द्वितीयेन प्रत्यक्षानुमानादावतिव्याप्तिर्व्युदस्यते, वर्णात्म-
कत्व विशेषणेनादृष्टेश्वरादि ६ वृत्तिमत्त्वं पदत्वम् ॥ १६६९ ॥
<bold>पदार्थ:-</bold> पद (स्यार्थ: १) बोध्योऽर्थः २ पदनिष्ट वृत्तिविषयः * ३

द्रव्याद्यन्यतमः । [स्फूर्त्यवस्था

<bold>पदार्थाभावनी-</bold> असंसक्तिभूमिकाभ्यासपाटवाच्चिरं प्रपश्चापरि-
<bold>पदैकवाक्यत्वं-</bold> निरूप्यनिरूपक भावापन्नविषयताप्रयोजक-
त्वम् १ पदस्य वाक्येन सह्रैकवाक्यतयैकार्थबोधकत्वम् २ पद-
रूपार्थवादवाक्यस्य विधिवाक्येन सह यदेकवाक्यत्वमिति ग्रं॰
<bold>पद्यं-</bold> छन्दोबद्धवाक्यम् १पादलक्षणसहितपदसमूहः । [ कारणं
<bold>परत्वं-</bold> शत्रुत्वम् * 1 सीमापरिच्छिन्नत्वम्२परव्यवहारासाधारण-
<bold>परकृत्यर्थवादः-</bold> पुरुषविशेषनिष्ठ मिथो विरुद्धकथनम्, यथा यद्वि
श्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम् ॥ १६८५ ॥
<bold>परतन्त्रत्वं -</bold> उत्कृष्टशास्त्रत्वम् * १ इतरसत्ताधीनसत्ताकत्वम् ।
परत <bold>परतउत्पत्तिकत्वं-</bold> ज्ञानमात्रजनकसामध्ग्र्यतिरिक्त कारण प्रयो-
[^१ शब्दजनिता या प्रतीतिस्तयाऽजन्यत्वे सति शाब्द प्रतीतिजनकं यत्तत् ।
 
-
 
[पर
]७५