This page has not been fully proofread.

७४ [पति]
 
* सर्वलक्षणसङ्ग्रहः *
 
न्यूननिग्रहस्थानं यत्किञ्चिदवयवशून्यावयवाभिधानम् <error>१६४०
</error><fix>॥१६४०॥</fix>
<bold>
न्यूनवृत्तित्वं-</bold>तत्समानाविकरणभेद प्रतियोगितावच्छेदकत्वम्
 

 

<bold>
पक्ष:-</bold> अनुमित्युद्देश्यः १ संदिग्धसाध्यवान्. २ सिषाधयिषितधर्मा-

नुयोगी ३वादिप्रतिवादिदर्शित विप्रतिपत्तौ कोटि: ४ शुक्लकृष्ण-

प्रतिपदा दिपञ्चदश्यन्तपञ्चदशतिथ्यात्मककाल इति मौहूर्तिकाः

<bold>
पक्षपातः-</bold> न्यायविरुद्धपक्षावलम्बनम् १ पक्षेऽन्याय्यसाहाय्ये

पातः अभिनिवेशः ।
[निवेश: २) स्थितिः

<bold>
पङ्कि:-</bold> ग्रन्थार्थबोधकशब्दः १ सजातीयपदार्थानां (क्रमेण सं.

<bold>
पञ्चीकरणं-</bold> म्वस्वेतरभूतचतुष्टयभागविशेषेण मिश्रीकरणम् १

भूतानि प्रत्येकं पञ्चधा विभज्य सद्भूतांशे पञ्च समुदायकरणम् २

पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्द्धभागं विहायार्धभागं

चतुर्धा विभज्येतरे षु योजनम् । [ धानुकूलसुप्सजातीयत्वं

पञ्चमीत्वं पतधात्वर्थतावच्छेदकरू पावच्छिन्न धर्मिक विभागबो.

पण्डितः पण्डा शास्त्रतात्पर्यवती सदसद्विवेकिनी वा बुद्धिः सञ्जा

पतनं पातित्यम्
१अधःसंयोगानुकूलक्रिया ।
 

 
[ता यस्य
 

 
<bold>
पतित्वं -</bold> निरतिशय हक्कियाशक्तिमत्त्वमिति शैवाः ॥ १६५८ ॥

<bold>
पतितः -</bold> नरकगमन (हेतुभूतक) सूचककर्म विशेषकारकः <error>१६५९
</error><fix>॥१६५९॥</fix>
पतिव्रता आर्त्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा,

मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६६०॥